पूर्वस्मिन्नध्यायद्वये निर्विशेषमात्मतत्त्वमनवच्छिन्नं सदानन्दैकतानमावेदितं तथा चोपनिषदारम्भे चरितार्थे किमवशिष्यते यदर्थमध्यायान्तरमित्याशङ्क्याऽऽह –
यद्यपीति ।
कर्तुमिति तदधिगमाय विशिष्टो देश उपदेष्टव्य इति सम्बन्धः । मन्दबुद्धीनां तर्हि परमार्थवस्तुनो ब्रह्मणोऽधिगतिरपेक्षितेत्यर्थः ।
न केवलं मन्दाधिकारिणां ब्रह्माधिगमशेषत्वेन हृदयदेशोपदेश एवात्र कर्तव्यः किं तु पूर्वत्रानुक्तगुणाद्यर्थान्तरोपदेशश्च कार्य इत्याह –
यद्यपीति ।
अवशिष्टमर्थान्तरमुपदेष्टव्यमन्वाचष्टे –
तथेति ।
मन्दधियां ब्रह्मधीशेषत्वेन देशविशेषवद्गुणविशेषवच्च ब्रह्मचर्यादिसाधनविशेषो विधातव्य इति सम्बन्धः ।
शब्दोत्थब्रह्मज्ञानवतां विधिं विनाऽपि विषयवैमुख्यसम्भवात्किं विधिनेत्याशङ्क्याऽऽह –
यद्यपि ब्रह्मविदामिति ।
यथा साधनविशेषो वक्तव्योऽवशिष्यते तथोपासकानां गतिश्च वक्तव्येत्यवशिष्टमर्थान्तरमाह –
तथेति ।
एकत्वदर्शिनां गन्त्रादिसर्वभेदप्रत्ययास्तमयादविद्याविशेषस्य देहस्थितिनिमित्तस्य क्षये सति निवृत्तिसम्भवात्कुतो गतिर्वक्तव्येत्याशङ्क्याऽऽह –
यद्यप्यात्मैकत्वविदामिति ।
अविद्यादिशेषस्थितिनिमित्तक्षये स्वात्मन्येव निवृत्तिरित्युत्तरेण सम्बन्धः ।
स्वात्मनिर्वाणेऽपि कृतकरूपत्यागेन स्वाभाविकस्वरूपावस्थानमित्यत्र दृष्टान्तानाह –
गगन इवेति ।
अनेकोदाहरणोपादानं बुद्धिसौकर्यार्थम् ।
उक्तमेवाध्यायतात्पर्यं संक्षिप्य दर्शयति –
दिग्देशेति ।
दिशादेशेन गुणैर्गत्या फलभेदेन च शून्यं तदनवच्छिन्नमिति यावत् ।
तस्य दिगाद्यनवच्छिन्नत्वे हेतुमाह –
अद्वयमिति ।
तर्हि तेषां भ्रमापोहार्थं परमार्थसदद्वयं ब्रह्म ग्राहयितव्यं किमित्यन्यथोपदिश्यते तत्राऽऽह –
सन्मार्गस्था इति ।