छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यद्यपि दिग्देशकालादिभेदशून्यं ब्रह्म ‘सत् . . . एकमेवाद्वितीयम्’ ‘आत्मैवेदं सर्वम्’ इति षष्ठसप्तमयोरधिगतम् , तथापि इह मन्दबुद्धीनां दिग्देशादिभेदवद्वस्त्विति एवंभाविता बुद्धिः न शक्यते सहसा परमार्थविषया कर्तुमिति, अनधिगम्य च ब्रह्म न पुरुषार्थसिद्धिरिति, तदधिगमाय हृदयपुण्डरीकदेशः उपदेष्टव्यः । यद्यपि सत्सम्यक्प्रत्ययैकविषयं निर्गुणं च आत्मतत्त्वम् , तथापि मन्दबुद्धीनां गुणवत्त्वस्येष्टत्वात् सत्यकामादिगुणवत्त्वं च वक्तव्यम् । तथा यद्यपि ब्रह्मविदां स्त्र्यादिविषयेभ्यः स्वयमेवोपरमो भवति, तथाप्यानेकजन्मविषयसेवाभ्यासजनिता विषयविषया तृष्णा न सहसा निवर्तयितुं शक्यत इति ब्रह्मचर्यादिसाधनविशेषो विधातव्यः । तथा यद्यप्यात्मैकत्वविदां गन्तृगमनगन्तव्याभावादविद्यादिशेषस्थितिनिमित्तक्षये गगन इव विद्युदुद्भूत इव वायुः दग्धेन्धन इव अग्निः स्वात्मन्येव निवृत्तिः, तथापि गन्तृगमनादिवासितबुद्धीनां हृदयदेशगुणविशिष्टब्रह्मोपासकानां मूर्धन्यया नाड्या गतिर्वक्तव्येत्यष्टमः प्रपाठक आरभ्यते । दिग्देशगुणगतिफलभेदशून्यं हि परमार्थसदद्वयं ब्रह्म मन्दबुद्धीनामसदिव प्रतिभाति । सन्मार्गस्थास्तावद्भवन्तु ततः शनैः परमार्थसदपि ग्राहयिष्यामीति मन्यते श्रुतिः —

पूर्वस्मिन्नध्यायद्वये निर्विशेषमात्मतत्त्वमनवच्छिन्नं सदानन्दैकतानमावेदितं तथा चोपनिषदारम्भे चरितार्थे किमवशिष्यते यदर्थमध्यायान्तरमित्याशङ्क्याऽऽह –

यद्यपीति ।

कर्तुमिति तदधिगमाय विशिष्टो देश उपदेष्टव्य इति सम्बन्धः । मन्दबुद्धीनां तर्हि परमार्थवस्तुनो ब्रह्मणोऽधिगतिरपेक्षितेत्यर्थः ।

न केवलं मन्दाधिकारिणां ब्रह्माधिगमशेषत्वेन हृदयदेशोपदेश एवात्र कर्तव्यः किं तु पूर्वत्रानुक्तगुणाद्यर्थान्तरोपदेशश्च कार्य इत्याह –

यद्यपीति ।

अवशिष्टमर्थान्तरमुपदेष्टव्यमन्वाचष्टे –

तथेति ।

मन्दधियां ब्रह्मधीशेषत्वेन देशविशेषवद्गुणविशेषवच्च ब्रह्मचर्यादिसाधनविशेषो विधातव्य इति सम्बन्धः ।

शब्दोत्थब्रह्मज्ञानवतां विधिं विनाऽपि विषयवैमुख्यसम्भवात्किं विधिनेत्याशङ्क्याऽऽह –

यद्यपि ब्रह्मविदामिति ।

यथा साधनविशेषो वक्तव्योऽवशिष्यते तथोपासकानां गतिश्च वक्तव्येत्यवशिष्टमर्थान्तरमाह –

तथेति ।

एकत्वदर्शिनां गन्त्रादिसर्वभेदप्रत्ययास्तमयादविद्याविशेषस्य देहस्थितिनिमित्तस्य क्षये सति निवृत्तिसम्भवात्कुतो गतिर्वक्तव्येत्याशङ्क्याऽऽह –

यद्यप्यात्मैकत्वविदामिति ।

अविद्यादिशेषस्थितिनिमित्तक्षये स्वात्मन्येव निवृत्तिरित्युत्तरेण सम्बन्धः ।

स्वात्मनिर्वाणेऽपि कृतकरूपत्यागेन स्वाभाविकस्वरूपावस्थानमित्यत्र दृष्टान्तानाह –

गगन इवेति ।

अनेकोदाहरणोपादानं बुद्धिसौकर्यार्थम् ।

उक्तमेवाध्यायतात्पर्यं संक्षिप्य दर्शयति –

दिग्देशेति ।

दिशादेशेन गुणैर्गत्या फलभेदेन च शून्यं तदनवच्छिन्नमिति यावत् ।

तस्य दिगाद्यनवच्छिन्नत्वे हेतुमाह –

अद्वयमिति ।

तर्हि तेषां भ्रमापोहार्थं परमार्थसदद्वयं ब्रह्म ग्राहयितव्यं किमित्यन्यथोपदिश्यते तत्राऽऽह –

सन्मार्गस्था इति ।