छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःद्वादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
मघवन्मर्त्यं वा इदꣳ शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ १ ॥
ननु यदि प्रियमप्यशरीरं न स्पृशतीति, यन्मघवतोक्तं सुषुप्तस्थो विनाशमेवापीतो भवतीति, तदेवेहाप्यापन्नम् । नैष दोषः, धर्माधर्मकार्ययोः शरीरसम्बन्धिनोः प्रियाप्रिययोः प्रतिषेधस्य विवक्षितत्वात् — अशरीरं न प्रियाप्रिये स्पृशत इति । आगमापायिनोर्हि स्पर्शशब्दो दृष्टः — यथा शीतस्पर्श उष्णस्पर्श इति, न त्वग्नेरुष्णप्रकाशयोः स्वभावभूतयोरग्निना स्पर्श इति भवति ; तथा अग्नेः सवितुर्वा उष्णप्रकाशवत् स्वरूपभूतस्य आनन्दस्य प्रियस्यापि नेह प्रतिषेधः, ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) ‘आनन्दो ब्रह्म’ (तै. उ. ३ । ६ । १) इत्यादिश्रुतिभ्यः । इहापि भूमैव सुखमित्युक्तत्वात् । ननु भूम्नः प्रियस्य एकत्वे असंवेद्यत्वात् स्वरूपेणैव वा नित्यसंवेद्यत्वात् निर्विशेषतेति न इन्द्रस्य तदिष्टम् , ‘नाह खल्वयं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि’ (छा. उ. ७ । ११ । २) इत्युक्तत्वात् । तद्धि इन्द्रस्येष्टम् — यद्भूतानि च आत्मानं च जानाति, न च अप्रियं किञ्चिद्वेत्ति, स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् येन ज्ञानेन । सत्यमेतदिष्टमिन्द्रस्य — इमानि भूतानि मत्तोऽन्यानि, लोकाः कामाश्च सर्वे मत्तो अन्ये, अहमेषां स्वामीति । न त्वेतदिन्द्रस्य हितम् । हितं च इन्द्रस्य प्रजापतिना वक्तव्यम् । व्योमवदशरीरात्मतया सर्वभूतलोककामात्मत्वोपगमेन या प्राप्तिः, तद्धितमिन्द्राय वक्तव्यमिति प्रजापतिना अभिप्रेतम् । न तु राज्ञो राज्याप्तिवदन्यत्वेन । तत्रैवं सति कं केन विजानीयादात्मैकत्वे इमानि भूतान्ययमहमस्मीति । नन्वस्मिन्पक्षे ‘स्त्रीभिर्वा यानैर्वा’ (छा. उ. ८ । १२ । ३) ‘स यदि पितृलोककामः’ (छा. उ. ८ । २ । १) ‘स एकधा भवति’ (छा. उ. ७ । २६ । २) इत्याद्यैश्वर्यश्रुतयोऽनुपपन्नाः ; न, सर्वात्मनः सर्वफलसम्बन्धोपपत्तेरविरोधात् — मृद इव सर्वघटकरककुण्डाद्याप्तिः । ननु सर्वात्मत्वे दुःखसम्बन्धोऽपि स्यादिति चेत् , न, दुःखस्याप्यात्मत्वोपगमादविरोधः । आत्मन्यविद्याकल्पनानिमित्तानि दुःखानि — रज्ज्वामिव सर्पादिकल्पनानिमित्तानि । सा च अविद्या अशरीरात्मैकत्वस्वरूपदर्शनेन दुःखनिमित्ता उच्छिन्नेति दुःखसम्बन्धाशङ्का न सम्भवति । शुद्धसत्त्वसङ्कल्पनिमित्तानां तु कामानाम् ईश्वरदेहसम्बन्धः सर्वभूतेषु मानसानाम् । पर एव सर्वसत्त्वोपाधिद्वारेण भोक्तेति सर्वाविद्याकृतसंव्यवहाराणां पर एव आत्मा आस्पदं नान्योऽस्तीति वेदान्तसिद्धान्तः ॥

प्रियस्पर्शाभावं श्रुत्वा मोक्षस्यापुमर्थत्वं शङ्कते –

नन्विति ।

इहापीति मुक्तो गृह्यते ।

स्वाभाविकप्रियाप्रतिषेधान्नापुमर्थत्वं मुक्तेरित्युत्तरमाह –

नैष दोष इति ।

प्रतिषेधमेवाभिनयति –

अशरीरमिति ।

कादाचित्कयोरेव प्रियाप्रिययोरेष निषेध इत्यत्र नियामकमाह –

आगमापायिनोरिति ।

कादाचित्के स्पर्शशब्दवन्न स्वात्मन्येतच्छब्दोऽस्तीत्याह –

न त्विति ।

आत्मनि तर्हि कादाचित्कमेव प्रियमिति तन्मात्रप्रतिषेधात्तदवस्थमपुमर्थत्वमित्याशङ्क्याऽऽह –

सवितुरिति ।

भूमविद्यालोचनायामपि सुखमात्रस्याऽऽत्मनि न प्रतिषेधोऽस्तीत्याह –

इहापीति ।

तथाऽपि विषयविषयिभावेन भेदाभावात्तदवस्थमपुरुषार्थत्वमिति शङ्कते –

नन्विति ।

भेदो न पुमर्थत्वोपयोगी केवलव्यतिरेकाभावात्सुखसाक्षात्कारस्तु पुरुषार्थः स चाभेदेऽपि विद्यत इत्याशङ्क्याऽऽह –

स्वरूपेणेति ।

आत्मनि विशेषज्ञानराहित्यमिन्द्रस्य नेष्टमित्यत्र हेतुमाह –

नाहेति ।

किं तर्हीन्द्रस्येष्टमित्याशङ्क्याऽऽह –

तद्धीति ।

येन ज्ञानेनाऽऽप्नोति तदिष्टमिन्द्रस्येति पूर्वेण सम्बन्धः ।

किमिदं विशेषविज्ञानमिन्द्रस्येष्टमित्युच्यते किं वा हितमिति विवक्ष्यते तत्राऽऽद्यमङ्गीकरोति –

सत्यमिति ।

द्वितीयं दूषयति –

न त्विति ।

द्वितीयाद्वै भयं भवतीत्यादिश्रुतेरित्यर्थः ।

तथाऽपीष्टमेवेन्द्राय प्रजापतिनोपदेष्टव्यमित्याशङ्क्याऽऽह –

हितं चेति ।

किं तर्हि तस्य हितमिति चेत्तदाह –

व्योमवदिति ।

हितं वक्तव्यमिति सम्बन्धः ।

हितमेव न त्विष्टमिति स्थिते फलितमाह –

तत्रेति ।

सर्वेषां भूतानां लोकानां कामानां चाऽऽत्मा सच्चिदानन्दमात्रं तद्रूपत्वं चेन्मुक्तस्येष्यते कथं तर्हि तस्यैश्वर्यश्रुतयो निर्वहन्तीति चोदयति –

नन्विति ।

सगुणविद्यावतां यदैश्वर्यं तन्निर्गुणविद्यास्तुत्यर्थं संकीर्त्यते ।

ब्रह्मीभूतस्य मुक्तस्य सगुणविद्याया अपि प्रत्यग्भूतत्वात्फलस्य तत्रोपचरितुं युक्तत्वादिति परिहरति –

नेत्यादिना ।

सर्वात्मत्वे निन्दाऽपि प्राप्नोतीति शङ्कते –

नन्विति ।

दुःखस्य दुःखत्वाभाववत्तस्याऽऽत्मा विद्वानपि न दुःखी भविष्यतीति समाधत्ते –

न , दुःखस्येति ।

तर्हि दुःखिनामात्मा मुक्त इति दुःखी स्यात्तत्राऽऽह –

आत्मनीति ।

न तावदात्मनः स्वभावतो दुःखित्वं किन्त्वाविद्यकं सा च मुक्तस्य दग्धेति दुःखित्वाप्रसक्तिरित्यर्थः ।

तर्हि विद्यया दग्धायामविद्यायां तदध्यारोपितमैश्वर्यमपीश्वरस्य सगुणविद्याफलभूतं दग्धमेवेति कथं स्तुत्यर्थमिह तदुपदेशसिद्धिरित्याशङ्क्याऽऽह –

शुद्धेति ।

शुद्धं सत्त्वं रजस्तमोभ्यामस्पृष्टं तस्मान्मायैकदेशाज्जाताः संकल्पा निमित्तानि येषां कामानामैश्वर्यभेदानां ते तथोक्तास्तेषां सर्वेषु विषयेषु मनोमात्रेणेश्वराभिध्यानरूपेण सिद्धानामीश्वराख्येन स्वभावेनाभिसम्बन्धो मायावस्थायां सिद्ध्यतीत्यर्थः ।

ननु जीवानामेवाविद्यातत्कार्यसम्बन्धा नेश्वरस्येति चेन्नेत्याह –

पर एवेति ।