ननु - विद्वद्व्यापारेऽपि कर्मशब्दप्रयोगदर्शनात् तद्व्यापारस्य कर्माभासत्वानुपपत्तेः समुच्चयसिद्धिरिति, तत्राह -
यच्चेति ।
ज्ञानकर्मणोः समुच्चित्यैव संसिद्धिहेतुत्वे प्रतिपन्ने कुतो विभज्य अर्थज्ञानमिति पृच्छति -
तत्कथमिति ।
तत्र, ‘किं जनकादयोऽपि तत्त्वविदः प्रवृत्तकर्माणः स्युः, आहोस्विदतत्त्वविदः ? ‘ इति विक्ल्प्य, प्रथमं प्रत्याह -
यदीति ।
तत्त्ववित्त्वे कथं प्रवृत्तकर्मत्वम् , कर्मणामकिञ्चित्करत्वात् , इत्याशङ्क्याह -
ते लोकेति ।
तेषामुक्तप्रयोजनार्थमपि न प्रवृत्तिर्युक्ता सर्वत्राप्युदासीनत्वात् , इत्याशङ्क्याह -
गुणा इति ।
इन्द्रियाणां विषयेषु प्रवृत्तिद्वारा तत्त्वविदां प्रवृत्तकर्मत्वेऽपि ज्ञानेनैव तेषां मुक्तिरित्याह -
ज्ञानेनेति ।
उक्तमेवार्थं सङ्क्षिप्य दर्शयति -
कर्मेति
कर्मणेत्यादौ बाधितानुवृत्त्या प्रवृत्त्याभासो गृह्यते ।
द्वितीयमनुवदति -
अथेति ।
तत्र वाक्यार्थं कथयति -
ईश्वरेति ।
विभज्य विज्ञेयत्वं वाक्यार्थस्योक्तमुपसंहरति -
इति व्याख्येयमिति ।
कर्मणां चित्तशुद्धिद्वारा ज्ञानहेतुत्वमित्युक्तेऽर्थे वाक्यशेषं प्रमाणयति -
एतमेवेति ।
‘योगिनः कर्म कुर्वन्ति’ (भ. भ. गी. ५-११) इत्यादिवाक्यमर्थतोऽनुवदति -
सत्त्वेति ।
‘स्वकर्मणा’ (भ. भ. गी. १८-४६) इत्यादौ साक्षादेव मोक्षहेतुत्वं कर्मणां वक्ष्यतीत्याशङ्क्याह -
स्वकर्मणेति ।
स्वकर्मानुष्ठानादीश्वरप्रसादद्वारा ज्ञाननिष्ठायोग्यता लभ्यते । ततो ज्ञाननिष्ठया मुक्तिः । तेन न साक्षात् कर्मणां मुक्तिहेतुतेत्यग्रे स्फुटीभविष्यतीत्यर्थः ।