श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यच्च पूर्वैः पूर्वतरं कृतम्’ (भ. गी. ४ । १५) कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ (भ. गी. ३ । २०) इति, तत्तु प्रविभज्य विज्ञेयम्तत्कथम् ? यदि तावत् पूर्वे जनकादयः तत्त्वविदोऽपि प्रवृत्तकर्माणः स्युः, ते लोकसङ्ग्रहार्थम् गुणा गुणेषु वर्तन्ते’ (भ. गी. ३ । २८) इति ज्ञानेनै संसिद्धिमास्थिताः, कर्मसंन्यासे प्राप्तेऽपि कर्मणा सहैव संसिद्धिमास्थिताः, कर्मसंन्यासं कृतवन्त इत्यर्थःअथ ते तत्त्वविदः ; ईश्वरसमर्पितेन कर्मणा साधनभूतेन संसिद्धिं सत्त्वशुद्धिम् , ज्ञानोत्पत्तिलक्षणां वा संसिद्धिम् , आस्थिता जनकादय इति व्याख्येयम्एवमेवार्थं वक्ष्यति भगवान् सत्त्वशुद्धये कर्म कुर्वन्ति’ (भ. गी. ५ । ११) इतिस्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’ (भ. गी. १८ । ४६) इत्युक्त्वा सिद्धिं प्राप्तस्य पुनर्ज्ञाननिष्ठां वक्ष्यतिसिद्धिं प्राप्तो यथा ब्रह्म’ (भ. गी. १८ । ५०) इत्यादिना

ननु - विद्वद्व्यापारेऽपि कर्मशब्दप्रयोगदर्शनात् तद्व्यापारस्य कर्माभासत्वानुपपत्तेः समुच्चयसिद्धिरिति, तत्राह -

यच्चेति ।

ज्ञानकर्मणोः समुच्चित्यैव संसिद्धिहेतुत्वे प्रतिपन्ने कुतो विभज्य अर्थज्ञानमिति पृच्छति -

तत्कथमिति ।

तत्र, ‘किं जनकादयोऽपि तत्त्वविदः प्रवृत्तकर्माणः स्युः, आहोस्विदतत्त्वविदः ? ‘ इति विक्ल्प्य, प्रथमं प्रत्याह -

यदीति ।

तत्त्ववित्त्वे कथं प्रवृत्तकर्मत्वम् , कर्मणामकिञ्चित्करत्वात् , इत्याशङ्क्याह -

ते लोकेति ।

तेषामुक्तप्रयोजनार्थमपि न प्रवृत्तिर्युक्ता सर्वत्राप्युदासीनत्वात् , इत्याशङ्क्याह -

गुणा इति ।

इन्द्रियाणां विषयेषु प्रवृत्तिद्वारा तत्त्वविदां प्रवृत्तकर्मत्वेऽपि ज्ञानेनैव तेषां मुक्तिरित्याह -

ज्ञानेनेति ।

उक्तमेवार्थं सङ्क्षिप्य दर्शयति -

कर्मेति

कर्मणेत्यादौ बाधितानुवृत्त्या प्रवृत्त्याभासो गृह्यते ।

द्वितीयमनुवदति -

अथेति ।

तत्र वाक्यार्थं कथयति -

ईश्वरेति ।

विभज्य विज्ञेयत्वं वाक्यार्थस्योक्तमुपसंहरति -

इति व्याख्येयमिति ।

कर्मणां चित्तशुद्धिद्वारा ज्ञानहेतुत्वमित्युक्तेऽर्थे वाक्यशेषं  प्रमाणयति -

एतमेवेति ।

‘योगिनः कर्म कुर्वन्ति’ (भ. भ. गी. ५-११) इत्यादिवाक्यमर्थतोऽनुवदति -

सत्त्वेति ।

‘स्वकर्मणा’ (भ. भ. गी. १८-४६) इत्यादौ साक्षादेव  मोक्षहेतुत्वं कर्मणां वक्ष्यतीत्याशङ्क्याह -

स्वकर्मणेति ।

स्वकर्मानुष्ठानादीश्वरप्रसादद्वारा ज्ञाननिष्ठायोग्यता लभ्यते । ततो ज्ञाननिष्ठया मुक्तिः । तेन न साक्षात् कर्मणां मुक्तिहेतुतेत्यग्रे स्फुटीभविष्यतीत्यर्थः ।