व्याख्येयं पदमुपादाय करणव्युत्पत्त्या तस्येन्द्रियविषयत्वं दर्शयति -
मात्रास्पर्शा इत्यादिना ।
षष्ठीसमासं दर्शयन् भावव्युत्पत्त्या स्पर्शशब्दार्थमाह -
मात्राणामिति ।
तेषामर्थक्रियामादर्शयति -
ते शीतेति ।
सम्प्रति स्पर्प्रा शब्दस्य कर्मव्युत्पत्त्या शब्दादिविषयपरत्वमुपेत्य समासान्तरं दर्शयन् विषयाणां कार्यं कथयति -
अथवेति ।
ननु - शीतोष्णप्रदत्वे सुखदुःखप्रदत्वस्य सिद्धत्वात् किमिति शीतोष्णयोः सुखदुःखाभ्यां पृथग्ग्रहणम् ? इति, तत्राह -
शीतमिति ।
विषयेभ्यस्तु पृथक्कथनं तदन्तर्भूतयोरेव तयोः सुखदुःखहेत्वोरानुकूल्यप्रातिकूल्ययोरुपलक्षणार्थम् । अव्यात्मं हि शीतमुष्णं वा आनुकूलयं प्रातिकूल्यं वा सम्पाद्य बाह्या विषयाः सुखादि जनयन्ति ।
ननु - विषयेन्द्रियसंयोगस्य आत्मनि सदा सत्त्वात् तत्प्रयुक्तशीतादेरपि तथात्वात् तन्निमित्तौ हर्षविषादौ तथैव तस्मिन्नापन्नौ इत्याशङ्क्योत्तरार्धं व्याचष्टे -
यस्मादित्यादिना ।
अत्र च ‘कौन्तेय, भारत’ इति सम्बोधनाभ्यामुभयकुलशुद्धस्यैव विद्याधिकारित्वमित्येतदेव द्योत्यते ॥ १४ ॥