श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ १४ ॥
मात्राः आभिः मीयन्ते शब्दादय इति श्रोत्रादीनि इन्द्रियाणिमात्राणां स्पर्शाः शब्दादिभिः संयोगाःते शीतोष्णसुखदुःखदाः शीतम् उष्णं सुखं दुःखं प्रयच्छन्तीतिअथवा स्पृश्यन्त इति स्पर्शाः विषयाः शब्दादयःमात्राश्च स्पर्शाश्च शीतोष्णसुखदुःखदाःशीतं कदाचित् सुखं कदाचित् दुःखम्तथा उष्णमपि अनियतस्वरूपम्सुखदुःखे पुनः नियतरूपे यतो व्यभिचरतःअतः ताभ्यां पृथक् शीतोष्णयोः ग्रहणम्यस्मात् ते मात्रास्पर्शादयः आगमापायिनः आगमापायशीलाः तस्मात् अनित्याःअतः तान् शीतोष्णादीन् तितिक्षस्व प्रसहस्वतेषु हर्षं विषादं वा मा कार्षीः इत्यर्थः ॥ १४ ॥

व्याख्येयं पदमुपादाय करणव्युत्पत्त्या तस्येन्द्रियविषयत्वं दर्शयति -

मात्रास्पर्शा इत्यादिना ।

षष्ठीसमासं दर्शयन् भावव्युत्पत्त्या स्पर्शशब्दार्थमाह -

मात्राणामिति ।

तेषामर्थक्रियामादर्शयति -

ते शीतेति ।

सम्प्रति स्पर्प्रा शब्दस्य कर्मव्युत्पत्त्या शब्दादिविषयपरत्वमुपेत्य समासान्तरं दर्शयन् विषयाणां कार्यं कथयति -

अथवेति ।

ननु - शीतोष्णप्रदत्वे सुखदुःखप्रदत्वस्य सिद्धत्वात् किमिति शीतोष्णयोः सुखदुःखाभ्यां पृथग्ग्रहणम् ? इति, तत्राह -

शीतमिति ।

विषयेभ्यस्तु पृथक्कथनं तदन्तर्भूतयोरेव तयोः सुखदुःखहेत्वोरानुकूल्यप्रातिकूल्ययोरुपलक्षणार्थम् । अव्यात्मं हि शीतमुष्णं वा आनुकूलयं प्रातिकूल्यं वा सम्पाद्य बाह्या विषयाः सुखादि जनयन्ति ।

ननु - विषयेन्द्रियसंयोगस्य आत्मनि सदा सत्त्वात् तत्प्रयुक्तशीतादेरपि तथात्वात् तन्निमित्तौ हर्षविषादौ तथैव तस्मिन्नापन्नौ इत्याशङ्क्योत्तरार्धं व्याचष्टे -

यस्मादित्यादिना ।

अत्र च ‘कौन्तेय, भारत’ इति सम्बोधनाभ्यामुभयकुलशुद्धस्यैव विद्याधिकारित्वमित्येतदेव द्योत्यते ॥ १४ ॥