श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यं हि व्यथयन्त्येते पुरुषं पुरुषर्षभ
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥
यं हि पुरुषं समे दुःखसुखे यस्य तं समदुःखसुखं सुखदुःखप्राप्तौ हर्षविषादरहितं धीरं धीमन्तं व्यथयन्ति चालयन्ति नित्यात्मदर्शनात् एते यथोक्ताः शीतोष्णादयः, सः नित्यात्मस्वरूपदर्शननिष्ठो द्वन्द्वसहिष्णुः अमृतत्वाय अमृतभावाय मोक्षायेत्यर्थः, कल्पते समर्थो भवति ॥ १५ ॥

तितिक्षमाणस्य विवक्षितं लाभमुपलम्भयति -

यं हीति ।

हर्षविषादरहितमित्यत्र शमादिसाधनसम्पन्नत्वमुच्यते । धीमन्तमिति - नित्यानित्याविवेकभागित्वम् । एतच्चोभयं वैराग्यादेरुपलक्षणम् ।

नित्यात्मदर्शनं - त्वमर्थज्ञानम् । साधनचतुष्टयवन्तमधिकारिणमनूद्य त्वम्पदार्थज्ञानवतस्तस्य मोक्षौपयिकवाक्यार्थज्ञानयोग्यतामाह -

स नित्येति

॥ १५ ॥