ननु - कदाचिदसदेव पुनः सत्त्वमापद्यते, प्रागसतो घटस्य जन्मना सत्त्वाभ्युपगमात् । सच्च कदाचिदसत्त्वं प्रतिपद्यते, स्थितिकाले सतो घटस्य पुनर्नाशेन असत्त्वाङ्गीकारात् । एवं सदसतोरव्यवस्थितत्वाविशेषात् उभयोरपि हेयत्वमुपादेयत्वं वा तुल्यं स्यात् इति, तत्राह -
एवमिति ।
तुशब्दो दृष्टशब्देन सम्बध्यमानो दृष्टिमवधारयति । न हि प्रागसतो घटस्य सत्त्वम् , असत्त्वे स्थिते सत्त्वप्राप्तिविरोधात् । असत्त्वनिवृत्तिश्च सत्त्वप्राप्त्या चेत् , प्राप्तमितरेतराश्रयत्वम् , अन्तरेणैव सत्त्वापत्तिमसत्त्वनिवृत्तौ असत्त्वमनवकाशि भवेत् । एतेन - सतोसत्त्वापत्तिरपि प्रतिनीतेति भावः ।
कथं तर्हि सतोऽसत्त्वम् , असतश्च सत्त्वं प्रतिभाति ? इत्याशङ्क्य, तत्त्वदर्शनाभावात् इत्याह -
तत्त्वेति ।
तस्य भावस्तत्त्वम् ।
न च तच्छब्देन परामर्शयोग्यं किञ्चिदस्ति प्रकृतं प्रतिनियतम् इत्याशङ्क्य व्याचष्टे -
तदित्यादिना ।
ननु - सदसतोरन्यथात्वं केचित् प्रतिपद्यन्ते । केचित्तु तयोरुक्तनिर्णयमनुसृत्य तथात्वमेवाधिगच्छन्ति । तत्र केषां मतमेषितव्यम् ? इति, तत्राह -
त्वमपीति
॥ १६ ॥