श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥
नैतेषां श्लोकानां पौनरुक्त्यं चोदनीयम् , यतः एकेनैव श्लोकेन आत्मनः नित्यत्वमविक्रियत्वं चोक्तम् जायते म्रियते वा’ (भ. गी. २ । २०) इत्यादिनातत्र यदेव आत्मविषयं किञ्चिदुच्यते, तत् एतस्मात् श्लोकार्थात् अतिरिच्यते ; किञ्चिच्छब्दतः पुनरुक्तम् , किञ्चिदर्थतः इतिदुर्बोधत्वात् आत्मवस्तुनः पुनः पुनः प्रसङ्गमापाद्य शब्दान्तरेण तदेव वस्तु निरूपयति भगवान् वासुदेवः कथं नु नाम संसारिणामसंसारित्वबुद्धिगोचरतामापन्नं सत् अव्यक्तं तत्त्वं संसारनिवृत्तये स्यात् इति ॥ २४ ॥

आत्मनोऽविक्रियत्वस्य ‘न जायते म्रियते वा’ (भ. गी. २-२०) इत्यादिना साधितत्वात् , तस्यैव पुनःपुनरभिधाने पुनरुक्तिरित्याशङ्क्याह-

नैतेषामिति ।

अनाशङ्कनीयस्य चोद्यस्य प्रसङ्गं दर्शयति -

यत इति ।

अतो ‘वेदाविनाशिनम्’  (भ. गी. २. २१) इत्यादौ शङ्क्यते, पौनरुक्त्यमिति शेषः ।

कथं तत्र पौनरुक्त्याशङ्का समुन्मिषति ? तत्राह -

तत्रेति ।

वेदाविनाशिनम् (भ. गी. २. २१) इत्यादिश्लोकः सप्तम्या परामृश्यते, श्लोकशब्देन ‘न जायते म्रियते वा’ (भ. गी. २-२०) इत्यादिरुच्यते ।

ननु - इह श्लोके जन्ममरणाद्यभावोऽभिलक्ष्यते, ‘वेद’ (भ. गी. २. २१) इत्यादौ पुनरपक्षयाद्यभावो विवक्ष्यते, तत्र कथमर्थातिरेकाभावमादाय पौनरुक्त्यं चोद्यते ? तत्राह -

किञ्चिदिति ।

कथं तर्हि पौनरुक्त्यं न चोदनीयमिति मन्यसे ? तत्राह -

दुर्बोधत्वादिति ।

पुनःपुनर्विधानमेदेन वस्तु निरूपयतो भगवतोऽभिप्रायमाह -

कथं न्विति

॥ २४ ॥