आत्मनोऽविक्रियत्वस्य ‘न जायते म्रियते वा’ (भ. गी. २-२०) इत्यादिना साधितत्वात् , तस्यैव पुनःपुनरभिधाने पुनरुक्तिरित्याशङ्क्याह-
नैतेषामिति ।
अनाशङ्कनीयस्य चोद्यस्य प्रसङ्गं दर्शयति -
यत इति ।
अतो ‘वेदाविनाशिनम्’ (भ. गी. २. २१) इत्यादौ शङ्क्यते, पौनरुक्त्यमिति शेषः ।
कथं तत्र पौनरुक्त्याशङ्का समुन्मिषति ? तत्राह -
तत्रेति ।
वेदाविनाशिनम् (भ. गी. २. २१) इत्यादिश्लोकः सप्तम्या परामृश्यते, श्लोकशब्देन ‘न जायते म्रियते वा’ (भ. गी. २-२०) इत्यादिरुच्यते ।
ननु - इह श्लोके जन्ममरणाद्यभावोऽभिलक्ष्यते, ‘वेद’ (भ. गी. २. २१) इत्यादौ पुनरपक्षयाद्यभावो विवक्ष्यते, तत्र कथमर्थातिरेकाभावमादाय पौनरुक्त्यं चोद्यते ? तत्राह -
किञ्चिदिति ।
कथं तर्हि पौनरुक्त्यं न चोदनीयमिति मन्यसे ? तत्राह -
दुर्बोधत्वादिति ।
पुनःपुनर्विधानमेदेन वस्तु निरूपयतो भगवतोऽभिप्रायमाह -
कथं न्विति
॥ २४ ॥