हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥
हतो वा प्राप्स्यसि स्वर्गम् , हतः सन् स्वर्गं प्राप्स्यसि । जित्वा वा कर्णादीन् शूरान् भोक्ष्यसे महीम् । उभयथापि तव लाभ एवेत्यभिप्रायः । यत एवं तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ‘जेष्यामि शत्रून् , मरिष्यामि वा’ इति निश्चयं कृत्वेत्यर्थः ॥ ३७ ॥