श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥
हतो वा प्राप्स्यसि स्वर्गम् , हतः सन् स्वर्गं प्राप्स्यसिजित्वा वा कर्णादीन् शूरान् भोक्ष्यसे महीम्उभयथापि तव लाभ एवेत्यभिप्रायःयत एवं तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयःजेष्यामि शत्रून् , मरिष्यामि वाइति निश्चयं कृत्वेत्यर्थः ॥ ३७ ॥

जये पराजये च लाभध्रौव्यात् युद्धार्थमुत्थानमावश्यकमित्याह-

तस्मादिति ।

नहि परिशुद्धकुलस्य क्षत्रियस्य युद्धायोद्युक्तस्य तस्मादुपरमः साधीयानित्याह -

कौन्तेयेति ।

जये पराजये चेत्येतदुभयथेत्युच्यते ।

जयादिनियमाभावोऽपि लाभनियमे फलितमाह -

यत इति ।

कृतनिश्चयत्वमेव विशदयति -

जेष्यामीति

॥ ३७ ॥