जये पराजये च लाभध्रौव्यात् युद्धार्थमुत्थानमावश्यकमित्याह-
तस्मादिति ।
नहि परिशुद्धकुलस्य क्षत्रियस्य युद्धायोद्युक्तस्य तस्मादुपरमः साधीयानित्याह -
कौन्तेयेति ।
जये पराजये चेत्येतदुभयथेत्युच्यते ।
जयादिनियमाभावोऽपि लाभनियमे फलितमाह -
यत इति ।
कृतनिश्चयत्वमेव विशदयति -
जेष्यामीति
॥ ३७ ॥