सुहृञ्जीवनमरणादिनिमित्तयोः सुखदुःखयोः समताकरणं कथम् ? इति, तत्राह -
रागद्वेषाविति ।
लाभः - शत्रुकोषादिप्राप्तिः, अलाभः - तद्विपर्ययः । न्याय्येन युद्धेनापरिभूतेन परस्य परिभवो जयः, तद्विपर्ययस्त्वजयः, तयोर्लाभालाभयोर्जयाजययोश्च समताकरणं समानमेव, रागद्वेषावकृत्वेत्येतद्दर्शयितुं तथेत्युक्तम् ।
यथोक्तोपदेशवशात् परमार्थदर्शनप्रकरणे युद्धकर्तव्यतोक्तेः समुच्चयपरत्वं शास्त्रस्य प्राप्तमित्याशङ्क्याह -
एष इति ।
क्षत्रियस्य तव धर्मभूतयुद्धकर्तव्यतानुवादप्रसङ्गागतत्वात् अस्योपदेशस्य नानेन मिषेण समुच्चयः सिध्यतीत्यर्थः ॥ ३८ ॥