श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ३८ ॥
सुखदुःखे समे तुल्ये कृत्वा, रागद्वेषावप्यकृत्वेत्येतत्तथा लाभालाभौ जयाजयौ समौ कृत्वा ततो युद्धाय युज्यस्व घटस्व एवं युद्धं कुर्वन् पापम् अवाप्स्यसित्येष उपदेशः प्रासङ्गिकः ॥ ३८ ॥

सुहृञ्जीवनमरणादिनिमित्तयोः सुखदुःखयोः समताकरणं कथम् ? इति, तत्राह -

रागद्वेषाविति ।

लाभः - शत्रुकोषादिप्राप्तिः, अलाभः - तद्विपर्ययः । न्याय्येन युद्धेनापरिभूतेन परस्य परिभवो जयः, तद्विपर्ययस्त्वजयः, तयोर्लाभालाभयोर्जयाजययोश्च समताकरणं समानमेव, रागद्वेषावकृत्वेत्येतद्दर्शयितुं तथेत्युक्तम् ।

यथोक्तोपदेशवशात् परमार्थदर्शनप्रकरणे युद्धकर्तव्यतोक्तेः समुच्चयपरत्वं शास्त्रस्य प्राप्तमित्याशङ्क्याह -

एष इति ।

क्षत्रियस्य तव धर्मभूतयुद्धकर्तव्यतानुवादप्रसङ्गागतत्वात् अस्योपदेशस्य नानेन मिषेण समुच्चयः सिध्यतीत्यर्थः ॥ ३८ ॥