श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ ४८ ॥
योगस्थः सन् कुरु कर्माणि केवलमीश्वरार्थम् ; तत्रापिईश्वरो मे तुष्यतुइति सङ्गं त्यक्त्वा धनञ्जयफलतृष्णाशून्येन क्रियमाणे कर्मणि सत्त्वशुद्धिजा ज्ञानप्राप्तिलक्षणा सिद्धिः, तद्विपर्ययजा असिद्धिः, तयोः सिद्ध्यसिद्ध्योः अपि समः तुल्यः भूत्वा कुरु कर्माणिकोऽसौ योगः यत्रस्थः कुरु इति उक्तम् ? इदमेव तत्सिद्ध्यसिद्ध्योः समत्वं योगः उच्यते ॥ ४८ ॥

वक्ष्यमाणयोगमुद्दिश्य तन्निष्ठो भूत्वा कर्माणि क्लेशात्मकान्यपि विहितत्वात् अनुष्ठेयानीत्याह -

योगस्थः सन्निति ।

कर्मानुष्ठानस्योद्देश्यं दर्शयति -

केवलमिति ।

फलान्तरापेक्षामन्तरेण ईश्वरार्थं - तत्प्रसादनार्थमनुष्ठानमित्यर्थः ।

तर्हि ईश्वरसन्तोषोऽभिलाषगोचरीभूतो भविष्यति, नेत्याह -

तत्रापीति ।

ईश्वरप्रसादनार्थे कर्मानुष्ठाने स्थितेऽपीत्यर्थः । सङ्गं त्यक्त्वा कुर्विति पूर्वेण सम्बन्धः ।

आकाङ्क्षितं पूरयित्वा, सिद्धिशब्दार्थमाह -

फलेति ।

तद्विपर्ययजा - सत्त्वाशुद्धिजन्या । ज्ञानाप्राप्तिलक्षणेति यावत् ।

कर्म अननुतिष्ठतो योगमुद्दिश्य शेषतया प्रकृतमाकाङ्क्षापूर्वकं प्रकटयति -

कोऽसावित्यादिना

॥ ४८ ॥