श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥
दूरेण अतिविप्रकर्षेण अत्यन्तमेव हि अवरम् अधमं निकृष्टं कर्म फलार्थिना क्रियमाणं बुद्धियोगात् समत्वबुद्धियुक्तात् कर्मणः, जन्ममरणादिहेतुत्वात्हे धनञ्जय, यत एवं ततः योगविषयायां बुद्धौ तत्परिपाकजायां वा साङ्‍ख्यबुद्धौ शरणम् आश्रयमभयप्राप्तिकारणम् अन्विच्छ प्रार्थयस्व, परमार्थज्ञानशरणो भवेत्यर्थःयतः अवरं कर्म कुर्वाणाः कृपणाः दीनाः फलहेतवः फलतृष्णाप्रयुक्ताः सन्तः, यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति कृपणः’ (बृ. उ. ३ । ८ । १०) इति श्रुतेः ॥ ४९ ॥

बुद्धियुक्तस्य बुद्धियोगाधीनं प्रकर्षं सूचयति -

बुद्धीति ।

बुद्धिसम्बन्धासम्बन्धाभ्यां कर्मणि प्रकर्षनिकर्षयोर्भावे करणीयं नियच्छति -

बुद्धाविति ।

यत्तु फलेच्छयापि कर्मानुष्ठानं सुकरमिति, तत्राह -

कृपणेति ।

निकृष्टं कर्मैव विशिनष्टि -

फलार्थिनेति ।

कस्मात् प्रतियोगिनः सकाशादिदं निकृष्टम् ? इत्याशङ्क्य, प्रतीकमुपादाय व्याचष्टे -

बुद्धीत्यादिना ।

फलाभिलाषेण क्रियमाणस्य कर्मणो निकृष्टत्वे हेतुमाह -

जन्मेति ।

समत्वबुद्धियुक्तात् कर्मणः तद्धीनस्य कर्मणो जन्मादिहेतुत्वेन निकृष्टत्वे फलितमाह -

यत इति ।

योगविषया बुद्धिः समत्वबुद्धिः ।

बुद्धिशब्दस्य अर्थान्तरमाह -

तत्परिपाकेति ।

तच्छब्देन समत्वबुद्धिसमन्वितं कर्म गृह्यते । तस्य परिपाकः - तत्फलभूता बुद्धिशुद्धिः ।

शरणशब्दस्य पर्यायं गृहीत्वा विवक्षितमर्थमाह -

अभयेति ।

सप्तमीमविवक्षित्वा द्वितीयं पक्षं गृहीत्वा वाक्यार्थमाह -

परमार्थेति ।

तथाविधज्ञानशरणत्वे हेतुमाह -

यत इति ।

फलहेतुत्वं विवृणोति -

फलेति ।

तेन परमार्थज्ञानशरणतैव युक्तेति शेषः ।

परमार्थज्ञानबहिर्मुखानां कृपणत्वे श्रुतिं प्रमाणयति -

यो वा इति ।

अस्थूलादिविशेषणं एतदित्युच्यते ॥ ४९ ॥