बुद्धियुक्तस्य बुद्धियोगाधीनं प्रकर्षं सूचयति -
बुद्धीति ।
बुद्धिसम्बन्धासम्बन्धाभ्यां कर्मणि प्रकर्षनिकर्षयोर्भावे करणीयं नियच्छति -
बुद्धाविति ।
यत्तु फलेच्छयापि कर्मानुष्ठानं सुकरमिति, तत्राह -
कृपणेति ।
निकृष्टं कर्मैव विशिनष्टि -
फलार्थिनेति ।
कस्मात् प्रतियोगिनः सकाशादिदं निकृष्टम् ? इत्याशङ्क्य, प्रतीकमुपादाय व्याचष्टे -
बुद्धीत्यादिना ।
फलाभिलाषेण क्रियमाणस्य कर्मणो निकृष्टत्वे हेतुमाह -
जन्मेति ।
समत्वबुद्धियुक्तात् कर्मणः तद्धीनस्य कर्मणो जन्मादिहेतुत्वेन निकृष्टत्वे फलितमाह -
यत इति ।
योगविषया बुद्धिः समत्वबुद्धिः ।
बुद्धिशब्दस्य अर्थान्तरमाह -
तत्परिपाकेति ।
तच्छब्देन समत्वबुद्धिसमन्वितं कर्म गृह्यते । तस्य परिपाकः - तत्फलभूता बुद्धिशुद्धिः ।
शरणशब्दस्य पर्यायं गृहीत्वा विवक्षितमर्थमाह -
अभयेति ।
सप्तमीमविवक्षित्वा द्वितीयं पक्षं गृहीत्वा वाक्यार्थमाह -
परमार्थेति ।
तथाविधज्ञानशरणत्वे हेतुमाह -
यत इति ।
फलहेतुत्वं विवृणोति -
फलेति ।
तेन परमार्थज्ञानशरणतैव युक्तेति शेषः ।
परमार्थज्ञानबहिर्मुखानां कृपणत्वे श्रुतिं प्रमाणयति -
यो वा इति ।
अस्थूलादिविशेषणं एतदित्युच्यते ॥ ४९ ॥