श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥
दूरेण अतिविप्रकर्षेण अत्यन्तमेव हि अवरम् अधमं निकृष्टं कर्म फलार्थिना क्रियमाणं बुद्धियोगात् समत्वबुद्धियुक्तात् कर्मणः, जन्ममरणादिहेतुत्वात् । हे धनञ्जय, यत एवं ततः योगविषयायां बुद्धौ तत्परिपाकजायां वा साङ्‍ख्यबुद्धौ शरणम् आश्रयमभयप्राप्तिकारणम् अन्विच्छ प्रार्थयस्व, परमार्थज्ञानशरणो भवेत्यर्थः । यतः अवरं कर्म कुर्वाणाः कृपणाः दीनाः फलहेतवः फलतृष्णाप्रयुक्ताः सन्तः, ‘यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः’ (बृ. उ. ३ । ८ । १०) इति श्रुतेः ॥ ४९ ॥

बुद्धियुक्तस्य बुद्धियोगाधीनं प्रकर्षं सूचयति -

बुद्धीति ।

बुद्धिसम्बन्धासम्बन्धाभ्यां कर्मणि प्रकर्षनिकर्षयोर्भावे करणीयं नियच्छति -

बुद्धाविति ।

यत्तु फलेच्छयापि कर्मानुष्ठानं सुकरमिति, तत्राह -

कृपणेति ।

निकृष्टं कर्मैव विशिनष्टि -

फलार्थिनेति ।

कस्मात् प्रतियोगिनः सकाशादिदं निकृष्टम् ? इत्याशङ्क्य, प्रतीकमुपादाय व्याचष्टे -

बुद्धीत्यादिना ।

फलाभिलाषेण क्रियमाणस्य कर्मणो निकृष्टत्वे हेतुमाह -

जन्मेति ।

समत्वबुद्धियुक्तात् कर्मणः तद्धीनस्य कर्मणो जन्मादिहेतुत्वेन निकृष्टत्वे फलितमाह -

यत इति ।

योगविषया बुद्धिः समत्वबुद्धिः ।

बुद्धिशब्दस्य अर्थान्तरमाह -

तत्परिपाकेति ।

तच्छब्देन समत्वबुद्धिसमन्वितं कर्म गृह्यते । तस्य परिपाकः - तत्फलभूता बुद्धिशुद्धिः ।

शरणशब्दस्य पर्यायं गृहीत्वा विवक्षितमर्थमाह -

अभयेति ।

सप्तमीमविवक्षित्वा द्वितीयं पक्षं गृहीत्वा वाक्यार्थमाह -

परमार्थेति ।

तथाविधज्ञानशरणत्वे हेतुमाह -

यत इति ।

फलहेतुत्वं विवृणोति -

फलेति ।

तेन परमार्थज्ञानशरणतैव युक्तेति शेषः ।

परमार्थज्ञानबहिर्मुखानां कृपणत्वे श्रुतिं प्रमाणयति -

यो वा इति ।

अस्थूलादिविशेषणं एतदित्युच्यते ॥ ४९ ॥