श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य ॥ ५२ ॥
यदा यस्मिन्काले ते तव मोहकलिलं मोहात्मकमविवेकरूपं कालुष्यं येन आत्मानात्मविवेकबोधं कलुषीकृत्य विषयं प्रत्यन्तःकरणं प्रवर्तते, तत् तव बुद्धिः व्यतितरिष्यति व्यतिक्रमिष्यति, अतिशुद्धभावमापत्स्यते इत्यर्थःतदा तस्मिन् काले गन्तासि प्राप्स्यसि निर्वेदं वैराग्यं श्रोतव्यस्य श्रुतस्य , तदा श्रोतव्यं श्रुतं ते निष्फलं प्रतिभातीत्यभिप्रायः ॥ ५२ ॥

श्रुतं श्रोतव्यं दृष्ठं द्रष्टव्यमित्यादौ फलाभिलाषप्रतिबन्धात् नोक्ता बुद्धिरुदेष्यति, इत्याशङ्क्याह -

यदेति ।

विेवेकपरिपाकावस्था कालशब्देनोच्यते । कालुष्यस्य दोषपर्यवसायित्वं दर्शयन् विशिनष्टि -

येनेति ।

तत् - अनर्थरूपं कालुष्यम् । तवेत्यन्वयार्थं पुनर्वचनम् ।

बुद्धिशुद्धिफलस्य विवेकस्य प्राप्त्या वैराग्याप्तिं दर्शयति -

तदेति ।

अध्यात्मशास्त्रातिरिक्तं शास्त्रं श्रोतव्यादिशब्देन गृह्यते ।

उक्तं वैराग्यमेव स्फोरयति -

श्रोतव्यमिति ।

यथोक्तविवेकसिद्धौ सर्वस्मिन् अनात्मविषये नैष्फल्यं प्रतिभातीत्यर्थः ॥ ५२ ॥