श्रुतं श्रोतव्यं दृष्ठं द्रष्टव्यमित्यादौ फलाभिलाषप्रतिबन्धात् नोक्ता बुद्धिरुदेष्यति, इत्याशङ्क्याह -
यदेति ।
विेवेकपरिपाकावस्था कालशब्देनोच्यते । कालुष्यस्य दोषपर्यवसायित्वं दर्शयन् विशिनष्टि -
येनेति ।
तत् - अनर्थरूपं कालुष्यम् । तवेत्यन्वयार्थं पुनर्वचनम् ।
बुद्धिशुद्धिफलस्य विवेकस्य प्राप्त्या वैराग्याप्तिं दर्शयति -
तदेति ।
अध्यात्मशास्त्रातिरिक्तं शास्त्रं श्रोतव्यादिशब्देन गृह्यते ।
उक्तं वैराग्यमेव स्फोरयति -
श्रोतव्यमिति ।
यथोक्तविवेकसिद्धौ सर्वस्मिन् अनात्मविषये नैष्फल्यं प्रतिभातीत्यर्थः ॥ ५२ ॥