इन्द्रियाणां विषयेभ्यो वैमुख्यस्य प्रज्ञास्थैर्ये कारणत्वात् , आदौ जिज्ञासुना तदनुष्ठेयम् , इत्याह -
यदेति ।
मुमुक्षुणा - मोक्षहेतुं प्रज्ञां प्रार्थयमानेन सर्वेभ्यो विषयेभ्यः सर्वाणीन्द्रियाणि विमुखानि कर्तव्यानि, इति श्लोकव्याख्यानेन कथयति -
यदेत्यादिना ।
उपसंहारः - स्ववशत्वापादनम् । तस्य च सम्यक्त्वं - अतिदृढत्वम् ।
अयमिति प्रकृतस्थितप्रज्ञग्रहणं व्यावर्तयति -
ज्ञाननिष्ठायामिति ।
इन्द्रियोपसंहारस्य प्रलयरूपत्वं व्यावर्त्य, सङ्कोचात्मकत्वं दृष्टान्तेन दर्शयति -
कूर्म इति ।
दृष्टान्तं व्याकरोति -
यथेति ।
दार्ष्टान्तिके योजयन् ज्ञाननिष्ठापदं तत्र प्रवर्तयति -
एवमिति ।
इन्द्रियाणां विषयेभ्यो वैमुख्यकरणं प्रज्ञास्थैर्यहेतुः, इत्युक्तमुपसंहरति -
तस्येति
॥ ५८ ॥