श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥
यदा संहरते सम्यगुपसंहरते अयं ज्ञाननिष्ठायां प्रवृत्तो यतिः कूर्मः अङ्गानि इव यथा कूर्मः भयात् स्वान्यङ्गानि उपसंहरति सर्वशः सर्वतः, एवं ज्ञाननिष्ठः इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वविषयेभ्यः उपसंहरतेतस्य प्रज्ञा प्रतिष्ठिता इत्युक्तार्थं वाक्यम् ॥ ५८ ॥

इन्द्रियाणां विषयेभ्यो वैमुख्यस्य प्रज्ञास्थैर्ये कारणत्वात् , आदौ जिज्ञासुना तदनुष्ठेयम् , इत्याह -

यदेति ।

मुमुक्षुणा -  मोक्षहेतुं प्रज्ञां प्रार्थयमानेन सर्वेभ्यो विषयेभ्यः सर्वाणीन्द्रियाणि विमुखानि कर्तव्यानि, इति श्लोकव्याख्यानेन कथयति -

यदेत्यादिना ।

उपसंहारः - स्ववशत्वापादनम् । तस्य च सम्यक्त्वं - अतिदृढत्वम् ।

अयमिति प्रकृतस्थितप्रज्ञग्रहणं व्यावर्तयति -

ज्ञाननिष्ठायामिति ।

इन्द्रियोपसंहारस्य प्रलयरूपत्वं व्यावर्त्य, सङ्कोचात्मकत्वं दृष्टान्तेन दर्शयति -

कूर्म इति ।

दृष्टान्तं व्याकरोति -

यथेति ।

दार्ष्टान्तिके योजयन् ज्ञाननिष्ठापदं तत्र प्रवर्तयति -

एवमिति ।

इन्द्रियाणां विषयेभ्यो वैमुख्यकरणं प्रज्ञास्थैर्यहेतुः, इत्युक्तमुपसंहरति -

तस्येति

॥ ५८ ॥