श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तानि सर्वाणि संयम्य युक्त आसीत मत्परः
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥
तानि सर्वाणि संयम्य संयमनं वशीकरणं कृत्वा युक्तः समाहितः सन् आसीत मत्परः अहं वासुदेवः सर्वप्रत्यगात्मा परो यस्य सः मत्परः, ‘ अन्योऽहं तस्मात्इति आसीत इत्यर्थःएवमासीनस्य यतेः वशे हि यस्य इन्द्रियाणि वर्तन्ते अभ्यासबलात् तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥

इन्द्रियाणां स्ववशत्वसम्पादनानन्तरं कर्तव्यमर्थमाह -

तानीति ।

एवमासीनस्य किं स्यात् ? इति तदाह -

वशे हीति ।

समाहितस्य - विक्षेपविकलस्य कथमासनम् ? इत्यपेक्षायामाह -

मत्पर इति ।

परापरभेदशङ्कामपाकृत्य आसनमेव स्फोरयति - नान्योऽहमिति ।

उत्तरार्धं व्याकरोति -

एवमिति ।

हिशब्दार्थं स्फुटयति -

अभ्यासेति ।

परस्मादात्मनो नाहमन्योऽस्मीति प्रागुक्तानुसन्धानस्य आदरेण नैरन्तर्यदीर्घकालानुष्ठानसामर्थ्यादित्यर्थः ।अथवा - विषयेषु दोषदर्शनाभ्याससामर्थ्यात् इन्द्रियाणि संयतानीत्यर्थः ॥ ६१ ॥