परमार्थावस्था निशेव अविदुषाम् , विदुषां तु द्वैतावस्था तथा, इति स्थिते फलितमाह -
अत इति ।
अविद्यावस्थायामेव क्रियाकारकफलभेदप्रतिभानादित्यर्थः ।
विद्योदयेऽपि तत्प्रतिभानाविशेषात् पूर्वमिव कर्माणि विधीयेरन् , इत्याशङ्क्याह -
विद्यायामिति ।
अविद्यानिवृत्तौ बाधितानुवृत्त्या विभागभानेऽपि नास्ति कर्मविधिः, विभागाभिनिवेशाभावादित्यर्थः ।
अविद्यावस्थायामेव कर्मणीत्युक्तं व्यक्तीकरोति -
प्रागिति ।
विद्योदयात् पूर्वं बाधकाभावादबाधिता विद्या क्रियादिभेदमापाद्य प्रमाणरूपया बुद्ध्या ग्राह्यतां प्राप्य कर्महेतुर्भवति, क्रियादिभेदाभिमानस्य तद्धेतुत्वादित्यर्थः ।
न विद्यावस्थायामित्युक्तं प्रपञ्चयति -
न अप्रमाणेति ।
उत्पन्नायां च विद्यायां अविद्याया निवृत्तत्वात् क्रियादिभेदभानमप्रमाणमिति बुद्धिरुत्पद्यते, तया गृह्यमाणा यथोक्तविभागभागिन्यपि अविद्या न कर्महेतुत्वं प्रतिपद्यते, बाधितत्वेन आभासतया तद्धेतुत्वायोगादित्यर्थः ।
विद्याविद्याविभागेनोक्तमेव विशेषं विवृणोति -
प्रमाणभूतेनेति ।
यथोक्तेन वेदेन कामनाजीवनादिमतो मम कर्म विहितम् , तेन मया तत् कर्तव्यम् इति मन्वानः सन् कर्मणि अज्ञोऽधिक्रियते, तं प्रति साधनविशेषवादिनो वेदस्य प्रवर्तकत्वादित्यर्थः ।
सर्वमेवेदमविद्यामात्रं द्वैतं निषेवेत इति मन्वानस्तु न प्रवर्तते कर्मणि, इति व्यावर्त्यमाह -
नाविद्येति ।
विदुषो न कर्मण्यधिकारश्चेत् तस्याधिकारस्तर्हि कुत्र ? इत्याशङ्क्याह -
यस्येति ।
तस्य आत्मज्ञस्य फलभूतसंन्यासाधिकारे वाक्यशेषं प्रमाणयति -
तथा चेति ।