श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
या निशा सर्वभूतानां तस्यां जागर्ति संयमी
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥
अतः कर्माणि अविद्यावस्थायामेव चोद्यन्ते, विद्यावस्थायाम्विद्यायां हि सत्याम् उदिते सवितरि शार्वरमिव तमः प्रणाशमुपगच्छति अविद्याप्राक् विद्योत्पत्तेः अविद्या प्रमाणबुद्ध्या गृह्यमाणा क्रियाकारकफलभेदरूपा सती सर्वकर्महेतुत्वं प्रतिपद्यते अप्रमाणबुद्ध्या गृह्यमाणायाः कर्महेतुत्वोपपत्तिः, ‘प्रमाणभूतेन वेदेन मम चोदितं कर्तव्यं कर्मइति हि कर्मणि कर्ता प्रवर्तते, अविद्यामात्रमिदं सर्वं निशेवइतियस्य पुनःनिशेव अविद्यामात्रमिदं सर्वं भेदजातम्इति ज्ञानं तस्य आत्मज्ञस्य सर्वकर्मसंन्यासे एव अधिकारो प्रवृत्तौतथा दर्शयिष्यतितद्बुद्धयस्तदात्मानः’ (भ. गी. ५ । १७) इत्यादिना ज्ञाननिष्ठायामेव तस्य अधिकारम्

परमार्थावस्था निशेव अविदुषाम् , विदुषां तु द्वैतावस्था तथा, इति स्थिते फलितमाह -

अत इति ।

अविद्यावस्थायामेव क्रियाकारकफलभेदप्रतिभानादित्यर्थः ।

विद्योदयेऽपि तत्प्रतिभानाविशेषात् पूर्वमिव कर्माणि विधीयेरन् , इत्याशङ्क्याह -

विद्यायामिति ।

अविद्यानिवृत्तौ बाधितानुवृत्त्या विभागभानेऽपि नास्ति कर्मविधिः, विभागाभिनिवेशाभावादित्यर्थः ।

अविद्यावस्थायामेव कर्मणीत्युक्तं व्यक्तीकरोति -

प्रागिति ।

विद्योदयात् पूर्वं बाधकाभावादबाधिता विद्या क्रियादिभेदमापाद्य प्रमाणरूपया बुद्ध्या ग्राह्यतां प्राप्य कर्महेतुर्भवति, क्रियादिभेदाभिमानस्य तद्धेतुत्वादित्यर्थः ।

न विद्यावस्थायामित्युक्तं प्रपञ्चयति -

न अप्रमाणेति ।

उत्पन्नायां च विद्यायां अविद्याया निवृत्तत्वात् क्रियादिभेदभानमप्रमाणमिति बुद्धिरुत्पद्यते, तया गृह्यमाणा यथोक्तविभागभागिन्यपि अविद्या न कर्महेतुत्वं प्रतिपद्यते, बाधितत्वेन आभासतया तद्धेतुत्वायोगादित्यर्थः ।

विद्याविद्याविभागेनोक्तमेव विशेषं विवृणोति -

प्रमाणभूतेनेति ।

यथोक्तेन वेदेन कामनाजीवनादिमतो मम कर्म विहितम् , तेन मया तत् कर्तव्यम् इति मन्वानः सन् कर्मणि अज्ञोऽधिक्रियते, तं प्रति साधनविशेषवादिनो वेदस्य प्रवर्तकत्वादित्यर्थः ।

सर्वमेवेदमविद्यामात्रं द्वैतं निषेवेत इति मन्वानस्तु न प्रवर्तते कर्मणि, इति व्यावर्त्यमाह -

नाविद्येति ।

विदुषो न कर्मण्यधिकारश्चेत् तस्याधिकारस्तर्हि कुत्र ? इत्याशङ्क्याह -

यस्येति ।

तस्य आत्मज्ञस्य फलभूतसंन्यासाधिकारे वाक्यशेषं प्रमाणयति -

तथा चेति ।