ज्ञानार्थिनो मुमुक्षोः संन्यासविध्यनुपपत्तिबाधितं समुच्चयविधिवचनमित्युक्तम् ; इदानाीं मोक्षस्वभावालोचनयाऽपि समुच्चयवचनमनुचितमित्याह -
मोक्षस्य चेति ।
‘अकुर्वन् विहितं कर्म निन्दितं च समाचरन् । प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति ॥‘ (मनु ११ - १४) इति स्मृतेः मुमुक्षुणाऽपि प्रत्यवायनिवृत्तये कर्तव्यं नित्यकर्मेति शङ्कते -
नित्यानीति ।
यो यस्मिन् कर्मण्यधिकृतस्तस्य तदकरणात् प्रत्यवायो भवति, न तु कर्मानधिकारिणः संन्यासिनस्तदकरणात् प्रत्यवायः सम्भवतीति दूषयति -
नासंन्यासीति ।
तदेव स्पष्टयति -
न हीति ।
समिद्धोमाध्ययनाद्यकरणात् प्रत्यवायः संन्यासिनो नास्तीत्यर्थः ।
तत्र व्यतिरेकोदाहरणमाह -
यथेति ।
अकरणात् प्रत्यवायोत्पत्तिमभ्युपेत्योक्तं ; सम्प्रति प्रतिषिद्धकरणादेव प्रत्यवायो न त्वकरणात् अभावाद् भावोत्पत्तेर्लोकवेदविरुद्धत्वादित्याह -
न तावदिति ।
ननु नित्यकर्मविधायी वेदस्तदकरणात् प्रत्यवायो भवतीति ब्रवीति, तत् कथमकरणात् प्रत्यवायो न भवतीति श्रुतिमाश्रित्योच्यते, श्रुत्यन्तरविरोधादिति, तत्राह -
यदीति ।
विहितस्याकरणे सति अनर्थप्राप्तेर्न नित्यकर्मविधायी वेदोऽनर्थकरत्वेनाप्रमाणमित्याशङ्क्याह -
विहितस्येति ।
न विहितस्य करणे पितृलोकप्राप्तिलक्षणं फलं भवतेष्यते, धूमादिना नयनपीडादिदुःखं तु प्रत्यक्षमेव, अकरणे च प्रत्यवायोत्पत्तिः, उभयथाऽपि पुरुषस्यानर्थकरो वेदोऽप्रमाणमेव स्यादित्यर्थः ।
नन्वभावस्यापि भावोत्पादनसामर्थ्यं वेदः सम्पादयिष्यति, तथा च विहिताकरणप्रत्यवायपरिहारो विहितकरणे फलिष्यतीति, नेत्याह -
तथा चेति ।
लोकप्रसिद्धपदार्थशक्त्याश्रयणेन शास्त्रप्रवृत्त्यङ्गीकारात् अपूर्वशक्त्याधानायोगाद् ज्ञापकमेव शास्त्रमित्यर्थः ।
कारकत्वे च तस्याप्रामाण्यमप्रत्यूहं स्यादित्याह -
कारकमिति ।
भवतु शास्त्रस्याप्रामाण्यमित्याशङ्क्यपौरुषेयतया शेषदोषानागान्धितत्वाद् मैवमित्याह -
न चेति ।
अनिर्वाच्यानुपलम्भस्य संवेदनमभावज्ञाने कारणं, समीहितसाधनज्ञानं तु चरणन्यासादि प्रवृत्तिक्रारणमित्यङ्गीकृत्योपसंहरति -
तस्मादिति ।
अकरणात् प्रत्यवायोत्पत्यसम्भवस्तच्छब्दार्थः ।
संन्यासिनां - ज्ञाननिष्ठानां, कर्मसंन्यासित्वादेव कर्मासम्भवे फलितमाह -
अत इति ।
समुच्चयानुपपत्तौ हेत्वन्तरमाह -
ज्यायसीति ।