श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ २ ॥
यदि हि कर्मनिष्ठायां गुणभूतमपि ज्ञानं भगवता उक्तं स्यात् , तत् कथं तयोःएकं वदइति एकविषयैव अर्जुनस्य शुश्रूषा स्यात् हि भगवता पूर्वमुक्तम्अन्यतरदेव ज्ञानकर्मणोः वक्ष्यामि, नैव द्वयम्इति, येन उभयप्राप्त्यसम्भवम् आत्मनो मन्यमानः एकमेव प्रार्थयेत् ॥ २ ॥

तदेकमित्यादिवाक्यस्याक्षरोत्थमर्थमुक्त्वा, समुच्चयस्य शास्त्रार्थत्वाभावे तात्पर्यमाह -

यदि हीति ।

गुणभूतमपीत्यादिना प्रधानभूतमपि वेति विवक्षितम् ।

ननु उभयप्राप्त्यसम्भवमात्मनो मन्यमानस्यार्जुनस्यान्यतरविषया शुश्रूषा भविष्यति ? नेत्याह -

न हीति ।

यथोक्तभगवद्वचनाभावे द्वयप्राप्त्यसम्भवबुद्ध्या नान्यतरप्रार्थना सम्भवतीत्याह -

येनेति ।

नहि तथाविधं भगवद्वचनं भवतेष्टं, भगवतः समुच्चयवादित्वाङ्गीकारात् । अतस्तदभावादुक्तबुद्ध्या न युक्ताऽन्यतरप्रार्थनेत्यर्थः ॥ २ ॥