तदेकमित्यादिवाक्यस्याक्षरोत्थमर्थमुक्त्वा, समुच्चयस्य शास्त्रार्थत्वाभावे तात्पर्यमाह -
यदि हीति ।
गुणभूतमपीत्यादिना प्रधानभूतमपि वेति विवक्षितम् ।
ननु उभयप्राप्त्यसम्भवमात्मनो मन्यमानस्यार्जुनस्यान्यतरविषया शुश्रूषा भविष्यति ? नेत्याह -
न हीति ।
यथोक्तभगवद्वचनाभावे द्वयप्राप्त्यसम्भवबुद्ध्या नान्यतरप्रार्थना सम्भवतीत्याह -
येनेति ।
नहि तथाविधं भगवद्वचनं भवतेष्टं, भगवतः समुच्चयवादित्वाङ्गीकारात् । अतस्तदभावादुक्तबुद्ध्या न युक्ताऽन्यतरप्रार्थनेत्यर्थः ॥ २ ॥