न कर्मणामित्यादिना पूर्वार्धं व्याख्याय, उत्तरार्धं व्याख्यातुमाशङ्कयति -
नन्विति ।
आदिशब्देन ‘शान्तो दान्त उपरतस्तितिक्षुः’ (बृ. उ. ४-४-२३), ‘संन्यासयोगाद् यतयः शुद्धसत्त्वाः’ (मु. उ. ३-२-६) इत्यादि गृह्यते ।
तत्रैव लोकप्रसिद्धिमनुकूलयति -
लोके चेति ।
प्रसिद्धतरं, ‘यतो यतो निवर्तते ततस्ततो विमुच्यते । निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥‘ (सं. शा. ३. ३६४) इत्यादिदर्शनादिति शेषः ।
लौकिकवैदिकप्रसिद्धिभ्यां सिद्धमर्थमाह -
अतश्चेति ।
तत्रोत्तरत्वेनोत्तरार्धमवतार्य, व्याकरोति -
अत आहेत्यादिना ।
एवकारार्थमाह -
केवलादिति ।
तदेव स्पष्टयति -
कर्मेति ।
उक्तमेव नञमनुकृष्य क्रियापदेन सङ्गतिं दर्शयति -
न प्राप्नोतीति
॥ ४ ॥