श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते
संन्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥
ननु अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत्’ (अश्व. ४६ । १८) इत्यादौ कर्तव्यकर्मसंन्यासादपि नैष्कर्म्यप्राप्तिं दर्शयतिलोके कर्मणामनारम्भान्नैष्कर्म्यमिति प्रसिद्धतरम्अतश्च नैष्कर्म्यार्थिनः किं कर्मारम्भेण ? इति प्राप्तम्अत आह संन्यसनादेवेतिनापि संन्यसनादेव केवलात् कर्मपरित्यागमात्रादेव ज्ञानरहितात् सिद्धिं नैष्कर्म्यलक्षणां ज्ञानयोगेन निष्ठां समधिगच्छति प्राप्नोति ॥ ४ ॥

न कर्मणामित्यादिना पूर्वार्धं व्याख्याय, उत्तरार्धं व्याख्यातुमाशङ्कयति -

नन्विति ।

आदिशब्देन ‘शान्तो दान्त उपरतस्तितिक्षुः’ (बृ. उ. ४-४-२३), ‘संन्यासयोगाद् यतयः शुद्धसत्त्वाः’ (मु. उ. ३-२-६) इत्यादि गृह्यते ।

तत्रैव लोकप्रसिद्धिमनुकूलयति -

लोके चेति ।

प्रसिद्धतरं, ‘यतो यतो निवर्तते ततस्ततो विमुच्यते । निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥‘ (सं. शा. ३. ३६४) इत्यादिदर्शनादिति शेषः ।

लौकिकवैदिकप्रसिद्धिभ्यां सिद्धमर्थमाह -

अतश्चेति ।

तत्रोत्तरत्वेनोत्तरार्धमवतार्य, व्याकरोति -

अत आहेत्यादिना ।

एवकारार्थमाह -

केवलादिति ।

तदेव स्पष्टयति -

कर्मेति ।

उक्तमेव नञमनुकृष्य क्रियापदेन सङ्गतिं दर्शयति -

न प्राप्नोतीति

॥ ४ ॥