प्रकृतं भगवतो मतमुक्तप्रकारमनुसृत्यैवानुतिष्ठतां क्रममुक्तिफलं कथयति -
यदेतदिति ।
शास्त्राचार्योपदिष्टेऽदृष्ठार्थे विश्वासवत्त्वं - श्रद्दधानत्वम् । गुणेषु दोषाविष्करणम् - असूया । अपिर्यथोक्ताया मुक्तेरमुख्यत्वद्योतनार्थः ॥ ३१ ॥