श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मण्यकर्म यः पश्येदकर्मणि कर्म यः
बुद्धिमान्मनुष्येषु युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥
मिथ्याज्ञानं बोद्धव्यं भवति, तत्प्रत्युपस्थापितं वा वस्त्वाभासम्नापि नित्यानाम् अकरणात् अभावात् प्रत्यवायभावोत्पत्तिः, नासतो विद्यते भावः’ (भ. गी. २ । १६) इति वचनात् कथं असतः सज्जायेत’ (छा. उ. ६ । २ । २) इति दर्शितम् असतः सज्जन्मप्रतिषेधात्असतः सदुत्पत्तिं ब्रुवता असदेव सद्भवेत् , सच्चापि असत् भवेत् इत्युक्तं स्यात्तच्च अयुक्तम् , सर्वप्रमाणविरोधात् निष्फलं विदध्यात् कर्म शास्त्रम् , दुःखस्वरूपत्वात् , दुःखस्य बुद्धिपूर्वकतया कार्यत्वानुपपत्तेःतदकरणे नरकपाताभ्युपगमात् अनर्थायैव उभयथापि करणे अकरणे शास्त्रं निष्फलं कल्पितं स्यात्स्वाभ्युपगमविरोधश्चनित्यं निष्फलं कर्मइति अभ्युपगम्यमोक्षफलायइति ब्रुवतःतस्मात् यथाश्रुत एवार्थःकर्मण्यकर्म यःइत्यादेःतथा व्याख्यातः अस्माभिः श्लोकः ॥ १८ ॥

किञ्च, कर्मादेर्मायामात्रत्वाद्  गौणमपि तद्विषयं ज्ञानं मिथ्याज्ञानमिति, न तस्य बोद्धव्यत्वसिद्धिरित्याह -

नचेति ।

मिथ्याज्ञानस्य बोद्धव्यत्वाभावेऽपि तद्विषयस्य बोद्धव्यता सिध्येदित्याशङ्क्याह वस्त्वाभासत्वात् मैवमित्याह -

तत्प्रत्युपस्थापितं वेति ।

यत्पुनरकरणस्य प्रत्यवायहेतुत्वम् , अकरणे गौण्या वृत्त्या कर्मशब्दप्रयोगे निमित्तमिति, तद् दूषयति  -

नापीति ।

अकरणात् प्रत्यवायो भवतीत्यत्र श्रृतिस्मृतिविरोधमभिदधाय, युक्तिविरोधमभिधाति -

असत इति ।

असतः सद्रूपेण भवनमभवनं च निःस्वरूपत्वादनुपपन्नम् - निरस्तसमस्ततत्त्वस्य किञ्चित् तत्त्वाभ्युपगमे सर्वप्रमाणानामप्रामाण्यसद्रूपेण भवनमभवनं च निः स्वरूपत्वादनुपपन्नम् - निरस्तसमस्ततत्त्वस्य किञ्चित् तत्त्वाभ्युपगमे सर्वप्रमाणानामप्रामाण्य प्रसङ्गादित्याह -

तच्चेति ।

यत्तु नित्यानां फलराहित्यं तत्राकर्मशब्दप्रयोगे निमित्तमिति, तन्निरस्यति -

नचेति ।

न केवलं विध्युद्देशे स्वफलाभावान्नित्यानां विध्यनुपपत्तिः, अपितु धात्वर्थस्य क्लेशात्मकत्वात् तत्र श्रुतफलाभावे नैव विधिरवकाशमासादयेदित्याह -

दुःखेति ।

दुःखरूपस्यापि धात्वर्थस्य साध्यत्वेन कार्यत्वात् तद्विषयो विधिः स्यादिति चेन्नेत्याह -

दुःखस्य चेति ।

स्वर्गादिफलाभावेऽपि नित्यानामकरणनिमित्तनिरयनिरासार्थं दुःखरूपाणामपि स्यादनुष्ठेयत्वमित्याशङ्क्य आह -

तदकरणे चेति ।

फलान्तराभावेऽपि मोक्षसाधनत्वाद् मुमुक्षुणा नित्यानि कर्माण्यनुष्ठेयानीत्याशङ्क्याह -

स्वाभ्युपगमेति ।

वृत्तिकारव्याख्यानासद्भावे फलितमुपसंहरति -

तस्मादिति ।

कोऽसौ यथाश्रुतोऽर्थः श्लोकस्येत्याशङ्क्य आह -

तथाचेति

॥ १८ ॥