श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३ ॥
समं कायशिरोग्रीवं कायश्च शिरश्च ग्रीवा कायशिरोग्रीवं तत् समं धारयन् अचलं समं धारयतः चलनं सम्भवति ; अतः विशिनष्टिअचलमितिस्थिरः स्थिरो भूत्वा इत्यर्थःस्वं नासिकाग्रं सम्प्रेक्ष्य सम्यक् प्रेक्षणं दर्शनं कृत्वेव इतिइवशब्दो लुप्तो द्रष्टव्यः हि स्वनासिकाग्रसम्प्रेक्षणमिह विधित्सितम्किं तर्हि ? चक्षुषो दृष्टिसंनिपातः अन्तःकरणसमाधानापेक्षो विवक्षितःस्वनासिकाग्रसम्प्रेक्षणमेव चेत् विवक्षितम् , मनः तत्रैव समाधीयेत, नात्मनिआत्मनि हि मनसः समाधानं वक्ष्यति आत्मसंस्थं मनः कृत्वा’ (भ. गी. ६ । २५) इतितस्मात् इवशब्दलोपेन अक्ष्णोः दृष्टिसंनिपात एवसम्प्रेक्ष्यइत्युच्यतेदिशश्च अनवलोकयन् दिशां अवलोकनमन्तराकुर्वन् इत्येतत् ॥ १३ ॥

समत्वम् - ऋजुत्वम् , कायः - शरीरमध्यम्

‘अचलम् ‘ विशेषणम् अवतार्य तस्य तात्पर्यम् आह -

सममिति ।

कार्यकरणयोः विषयपारवश्यशून्यत्वम् अचलत्वं स्थैर्यम् ।

किमिति इवशब्दलोपः अत्र  कल्प्यते ? स्वनासिकाग्रसम्प्रेक्षणमेव योगाङ्गत्वेन अत्र विधित्सितं किं न स्यात् ? इत्याशङ्क्य, आह -

नहीति ।

तर्हि किमत्र विवक्षितम् ? इति प्रश्नपूर्वकम् आह -

किं तर्हि इति ।

दृष्टिसन्निपातः - दृष्टेः - चक्षुषः, रूपादिविषयप्रवृत्तिराहित्यम् ।

कथम् असौ अनायासेन सिध्यति ? तत्र आह -

स चेति ।

समाधानस्य प्राधान्येन अत्र विवक्षितत्वात् दृष्टेः बहिर्विषयत्वेन तद्भङ्गप्रसङ्गात् तस्या विषयेभ्यो व्यावृत्त्य अन्तरे च सन्निपातो विवक्षितो भवति, इत्यर्थः ।

तथापि कथं स्वनासिकाग्रसम्प्रेक्षणम् अत्र श्रुतम् अविवक्षितम् ? इत्याशङ्क्य, आह -

स्वनासिकेति ।

तत्रैव मनःसमाधाने का हानिः ? इत्याशङ्क्य, वाक्यशेषविरोधात् मैवम् , इत्याह -

आत्मनि हीति ।

किं तर्हि ‘सम्प्रेक्ष्य’ इत्यादौ विवक्षितम् ? इत्याशङ्क्य, आह -

तस्मादिति ।

दक्षिणेतरचक्षुषोः या दृष्टिः तस्या बाह्याद्विषयात् वैमुख्येन अन्तरेव सन्निपतनम् अत्र स्वकीयं नासिकाग्रम् नासिकान्तं सम्प्रेक्ष्येति विवक्षितम् , इत्यर्थः ।

तत्रैव उत्तरम् अपि विशेषणम् अनुकूलम् इत्याह -

दिशश्चेति ।

 अनवलोकयन् आसीत इति उत्तरत्र सम्बन्धः, अन्तरान्तरा दिशाम् अवलोकनमपि योगप्रतिबन्धकम् , इति तत्प्रतिषेधः

॥ १३ ॥