श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अन्तवत्तु फलं तेषां
तद्भवत्यल्पमेधसाम्
देवान्देवयजो यान्ति
मद्भक्ता यान्ति मामपि ॥ २३ ॥
अन्तवत् विनाशि तु फलं तेषां तत् भवति अल्पमेधसां अल्पप्रज्ञानाम् । देवान्देवयजो यान्ति देवान् यजन्त इति देवयजः, ते देवान् यान्ति, मद्भक्ता यान्ति मामपि । एवं समाने अपि आयासे मामेव न प्रपद्यन्ते अनन्तफलाय, अहो खलु कष्टं वर्तन्ते, इत्यनुक्रोशं दर्शयति भगवान् ॥ २३ ॥

कामफलस्य विनाशित्वे किमिति कामनिष्ठत्वं जन्तूनाम् ? इत्याशङ्क्य, प्रज्ञामान्द्यादित्याह -

अल्पेति ।

किं तर्हि साधनम् अनन्तफलाय इत्याशङ्क्य, भगवद्भक्तिरित्याह -

मद्भक्ता इति ।

अक्षरार्थम् उक्त्वा श्लोकस्य तात्पर्यार्थमाह -

एवमिति ।

देवताप्राप्तौ चेति शेषः ।

मामेव इत्यादौ देवताविशेषं प्रपद्यन्ते अन्तवत्फलाय इति वक्तव्यम् । उक्तवैपरीत्ये कारणम् अविवेकातिरिक्तं नास्ति इत्यभिप्रेत्य आह -

अहो खल्विति

॥ २३ ॥