श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अन्तवत्तु फलं तेषां
तद्भवत्यल्पमेधसाम्
देवान्देवयजो यान्ति
मद्भक्ता यान्ति मामपि ॥ २३ ॥
यस्मात् अन्तवत्साधनव्यापारा अविवेकिनः कामिनश्च ते, अतः —

प्रेक्षापूर्वकारिणि कामानां हितत्वाभावे हेतुमाह -

यस्मादिति ।

किञ्च, ये कामिनः ते न विवेकिनः, ततश्च अविवेकपूर्वकत्वात् कामानां कुतो हितत्वाशङ्का ? इत्याह -

अविवेकिन इति ।

कामानाम् आनन्त्यफलत्वेन हितत्वम् आशङ्क्य, आह -

अत इति।

तेषाम् अविवेकपूर्वकत्वम् अतश्शब्दार्थः । तुशब्दः अवधारणार्थः ।