अभ्यासं विभजते -
मयीति ।
न हि चित्तसमर्पणस्य विषयभूतं भगवतोऽर्थान्तरं वस्तुसदस्ति, इति मन्वानो विशिनष्टि -
चित्तेति ।
अन्तराळकालेऽपि विजातीयप्रत्ययेषु विच्छिद्य विच्छद्य जायमानेष्वपि सजातीयप्रत्ययावृत्तिः अयोगिनोऽपि स्यात् इत्याशङ्क्य, आह -
विलक्षणेति ।
अभ्यासाख्येन योगेन युक्तत्वं चेतसो विवृणोति -
तत्रैवेति ।
तृतीयया परामृष्टोऽभ्यासयोगः सप्तम्यापि परामृश्यते ।
ननु - प्राकृतानां चेतस्तथा, इत्याशङ्क्य, विशिनष्टि -
योगिन इति ।
तच्चेत् चेतः विषयान्तरं परामृशेत् , न तर्हि परमपुरुषार्थ प्रप्तिहेतुः स्यात् , इत्याशङ्क्य, आह -
नान्यगामिनेति ।
प्रामादिकं विषयान्तरपारवश्यम् अभ्यनुज्ञातुंताच्छील्यप्रत्ययः । तेन तात्पर्यात् अपरामृष्टार्थान्तरेण परमपुरुषनिष्ठेन, इत्यर्थः । तदेव पुरुषस्य निरतिशयत्वम् , यत् अपरामृष्टाखिलानर्थत्वम् अनतिशयानन्दत्वं च । तच्च प्रागेव व्याख्यातम् , नेह व्याख्यानम् अपेक्षते ।
‘यश्चासावादित्ये’ (तै. उ. २-८-५) इत्यादिश्रुतिम् अनुसृत्य, आह -
दिवीति ।
तत्र विशेषतोऽभिव्यक्तिरेव भवनम् । पूर्वोक्तेन चेतसा यथोक्तं पुरुषम् अनुचिन्तयन् याति तमेव, इति सम्बन्धः ।
अनुचिन्तयन् इत्यत्र अनुशब्दार्थं व्याचष्ठे -
शास्त्रेति ।
चिन्तयन् इति व्याकरोति -
ध्यायन्निति
॥ ८ ॥