श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥
अभ्यासयोगयुक्तेन मयि चित्तसमर्पणविषयभूते एकस्मिन् तुल्यप्रत्ययावृत्तिलक्षणः विलक्षणप्रत्ययानन्तरितः अभ्यासः चाभ्यासो योगः तेन युक्तं तत्रैव व्यापृतं योगिनः चेतः तेन, चेतसा नान्यगामिना अन्यत्र विषयान्तरे गन्तुं शीलम् अस्येति नान्यगामि तेन नान्यगामिना, परमं निरतिशयं पुरुषं दिव्यं दिवि सूर्यमण्डले भवं याति गच्छति हे पार्थ अनुचिन्तयन् शास्त्राचार्योपदेशम् अनुध्यायन् इत्येतत् ॥ ८ ॥

अभ्यासं विभजते -

मयीति ।

न हि चित्तसमर्पणस्य विषयभूतं भगवतोऽर्थान्तरं वस्तुसदस्ति, इति मन्वानो विशिनष्टि -

चित्तेति ।

अन्तराळकालेऽपि विजातीयप्रत्ययेषु विच्छिद्य विच्छद्य जायमानेष्वपि सजातीयप्रत्ययावृत्तिः अयोगिनोऽपि स्यात् इत्याशङ्क्य, आह -

विलक्षणेति ।

अभ्यासाख्येन योगेन युक्तत्वं चेतसो विवृणोति -

तत्रैवेति ।

तृतीयया परामृष्टोऽभ्यासयोगः सप्तम्यापि परामृश्यते ।

ननु - प्राकृतानां चेतस्तथा, इत्याशङ्क्य, विशिनष्टि -

योगिन इति ।

तच्चेत् चेतः विषयान्तरं परामृशेत् , न तर्हि परमपुरुषार्थ प्रप्तिहेतुः स्यात् , इत्याशङ्क्य, आह -

नान्यगामिनेति ।

प्रामादिकं विषयान्तरपारवश्यम् अभ्यनुज्ञातुंताच्छील्यप्रत्ययः । तेन तात्पर्यात् अपरामृष्टार्थान्तरेण परमपुरुषनिष्ठेन, इत्यर्थः । तदेव पुरुषस्य निरतिशयत्वम् , यत् अपरामृष्टाखिलानर्थत्वम् अनतिशयानन्दत्वं च । तच्च प्रागेव व्याख्यातम् , नेह व्याख्यानम् अपेक्षते ।

‘यश्चासावादित्ये’ (तै. उ. २-८-५) इत्यादिश्रुतिम् अनुसृत्य, आह -

दिवीति ।

तत्र विशेषतोऽभिव्यक्तिरेव भवनम् । पूर्वोक्तेन चेतसा यथोक्तं पुरुषम् अनुचिन्तयन् याति तमेव, इति सम्बन्धः ।

अनुचिन्तयन् इत्यत्र अनुशब्दार्थं व्याचष्ठे -

शास्त्रेति ।

चिन्तयन् इति व्याकरोति -

ध्यायन्निति

॥ ८ ॥