कदा तदनुस्मरणे प्रयत्नातिरेकोऽभ्यर्थ्यते, तत्र आह -
प्रयाणकाल इति ।
कथं तदनुस्मरणम् ? इति उपकरणकलापप्रेक्ष्यमाणं प्रति आह -
मनसेति ।
योऽनुस्मरेत् , स किम् उपैति ? तत्र आह -
स तमिति ।
मरणकाले क्लेशबाहुल्येऽपि प्राचीनाभ्यासादासादितबुद्धिवैभवो भगवन्तम् अऩुस्मरन् यथास्मृतमेव देहाभिमानविगमनानन्तरम् उपागच्छति, इत्यर्थः ।
भगवदनुस्मरणस्य साधनं ‘मनसैवानुद्रष्टव्यम् ‘ इति श्रृत्युपदिष्टम् आचष्टे -
मनसेति ।
तस्य चञ्चलत्वात् न स्थैर्यम् ईश्वरे सिध्यति, तत्कथं तेत तदनुस्मरणम् ? इत्याशङ्क्य, आह -
अचलेनेति ।
ईश्वरानुस्मरणे प्रयत्नेन प्रवर्तितं विषयविमुखम् , तस्मिन्नेव अनुस्मरणयोग्यपौनःपुन्येन प्रवृत्त्या निश्चलीकृतम् , ततः चलनविकलम् , तेन, इति व्याचष्टे -
अचलेनेति ।
सम्प्रति अऩुस्मरणाधिकारिणं विशिनिष्टि -
भक्त्येति ।
परमेश्वरे परेण प्रेम्णा सहितो विषयान्तरविमुखोऽनुस्मर्तव्यः, इत्यर्थः ।
योगबलमेव स्फोरयति -
समाधिजेति ।
योगः - समाधिः, चित्तस्य विषयान्तरवृत्तिनिरोधेन परस्मिन्नेव स्थापनम् । तस्य बलम् - संस्कारप्रचयो ध्येयैकाग्र्यकरणम् । तेन, तत्रैव स्थैर्यम् , इत्यर्थः ।
चकारसूचितम् अन्वयम् अन्वाचष्टे -
तेन चेति ।
यत्तु कया नाड्या उत्क्रामन् याति, इति, तत्र आह -
पूर्वमिति ।
चित्त हि स्वभावतो विषयेषु व्यापृतं, तेभ्यो विमुखीकृत्य हृदये पुण्डरीकाकारे परमात्मस्थाने यत्नतः स्थापनीयम् ।
‘अथ यदिदमस्मिन् ब्रह्मपुरे ‘ इत्यादिश्रुतेः, तत्र चित्तं वशीकृत्य आदौ, अनन्तरं कर्तव्यम् उपदिशति -
तत इति ।
इडापिङ्गले दक्षिणोत्तरे नाड्यौ हृदयान्निस्सृते निरुध्य, तस्मादेव हृदयाग्रात् ऊर्ध्वगमनशीलया सुषुम्नया नाड्या हार्द प्राणम् आनीय, कण्ठावलम्बितस्तनसदृशं मांसखण्डं प्राप्य, तेन अध्वना भ्रुवोर्मध्ये तम आवेश्य अप्रमादवान् ब्रह्मरन्ध्रात् विनिष्क्रम्य ‘कविं पुराणम् ‘ इत्यादिविशेषणं परमपुरुषम् उपगच्छति, इत्यर्थः ।
‘भूमिजयक्रमेण ‘ इत्यत्र भूम्यादीनां पञ्चानां भूतानाम् , जयः - वशीकरणाम् - तस्य तस्य भूतस्य स्वाधीनचेष्टावैशिष्ट्यम् , तद्द्वारेण, इति एतदुच्यते । ‘स तम् ‘ इत्यादि व्याचष्टे -
स एवमिति
॥ १० ॥