श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रयाणकाले मनसाचलेन
भक्त्या युक्तो योगबलेन चैव
भ्रुवोर्मध्ये प्राणमावेश्य सम्य
क्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥
प्रयाणकाले मरणकाले मनसा अचलेन चलनवर्जितेन भक्त्या युक्तः भजनं भक्तिः तया युक्तः योगबलेन चैव योगस्य बलं योगबलं समाधिजसंस्कारप्रचयजनितचित्तस्थैर्यलक्षणं योगबलं तेन युक्तः इत्यर्थः, पूर्वं हृदयपुण्डरीके वशीकृत्य चित्तं ततः ऊर्ध्वगामिन्या नाड्या भूमिजयक्रमेण भ्रुवोः मध्ये प्राणम् आवेश्य स्थापयित्वा सम्यक् अप्रमत्तः सन् , सः एवं विद्वान् योगी कविं पुराणम्’ (भ. गी. ८ । ९) इत्यादिलक्षणं तं परं परतरं पुरुषम् उपैति प्रतिपद्यते दिव्यं द्योतनात्मकम् ॥ १० ॥
प्रयाणकाले मनसाचलेन
भक्त्या युक्तो योगबलेन चैव
भ्रुवोर्मध्ये प्राणमावेश्य सम्य
क्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥
प्रयाणकाले मरणकाले मनसा अचलेन चलनवर्जितेन भक्त्या युक्तः भजनं भक्तिः तया युक्तः योगबलेन चैव योगस्य बलं योगबलं समाधिजसंस्कारप्रचयजनितचित्तस्थैर्यलक्षणं योगबलं तेन युक्तः इत्यर्थः, पूर्वं हृदयपुण्डरीके वशीकृत्य चित्तं ततः ऊर्ध्वगामिन्या नाड्या भूमिजयक्रमेण भ्रुवोः मध्ये प्राणम् आवेश्य स्थापयित्वा सम्यक् अप्रमत्तः सन् , सः एवं विद्वान् योगी कविं पुराणम्’ (भ. गी. ८ । ९) इत्यादिलक्षणं तं परं परतरं पुरुषम् उपैति प्रतिपद्यते दिव्यं द्योतनात्मकम् ॥ १० ॥

कदा तदनुस्मरणे प्रयत्नातिरेकोऽभ्यर्थ्यते, तत्र आह -

प्रयाणकाल इति ।

कथं तदनुस्मरणम् ? इति उपकरणकलापप्रेक्ष्यमाणं प्रति आह -

मनसेति ।

योऽनुस्मरेत् , स किम् उपैति ? तत्र आह -

स तमिति ।

मरणकाले क्लेशबाहुल्येऽपि प्राचीनाभ्यासादासादितबुद्धिवैभवो भगवन्तम् अऩुस्मरन् यथास्मृतमेव देहाभिमानविगमनानन्तरम् उपागच्छति, इत्यर्थः ।

भगवदनुस्मरणस्य साधनं ‘मनसैवानुद्रष्टव्यम् ‘ इति  श्रृत्युपदिष्टम् आचष्टे -

मनसेति ।

तस्य चञ्चलत्वात् न स्थैर्यम् ईश्वरे सिध्यति, तत्कथं तेत तदनुस्मरणम् ? इत्याशङ्क्य, आह -

अचलेनेति ।

ईश्वरानुस्मरणे प्रयत्नेन प्रवर्तितं विषयविमुखम् , तस्मिन्नेव अनुस्मरणयोग्यपौनःपुन्येन प्रवृत्त्या निश्चलीकृतम् , ततः चलनविकलम् , तेन, इति व्याचष्टे -

अचलेनेति ।

सम्प्रति अऩुस्मरणाधिकारिणं विशिनिष्टि -

भक्त्येति ।

परमेश्वरे परेण प्रेम्णा सहितो  विषयान्तरविमुखोऽनुस्मर्तव्यः, इत्यर्थः ।

योगबलमेव स्फोरयति -

समाधिजेति ।

योगः - समाधिः, चित्तस्य विषयान्तरवृत्तिनिरोधेन परस्मिन्नेव स्थापनम् । तस्य बलम् - संस्कारप्रचयो ध्येयैकाग्र्यकरणम् । तेन, तत्रैव स्थैर्यम् , इत्यर्थः ।

चकारसूचितम् अन्वयम् अन्वाचष्टे -

तेन चेति ।

यत्तु कया नाड्या उत्क्रामन् याति, इति, तत्र आह -

पूर्वमिति ।

चित्त हि स्वभावतो विषयेषु व्यापृतं, तेभ्यो विमुखीकृत्य हृदये पुण्डरीकाकारे परमात्मस्थाने यत्नतः स्थापनीयम् ।

‘अथ यदिदमस्मिन् ब्रह्मपुरे ‘ इत्यादिश्रुतेः, तत्र चित्तं वशीकृत्य आदौ, अनन्तरं कर्तव्यम् उपदिशति -

तत इति ।

इडापिङ्गले दक्षिणोत्तरे नाड्यौ हृदयान्निस्सृते निरुध्य, तस्मादेव हृदयाग्रात् ऊर्ध्वगमनशीलया सुषुम्नया नाड्या हार्द प्राणम् आनीय, कण्ठावलम्बितस्तनसदृशं मांसखण्डं प्राप्य, तेन अध्वना भ्रुवोर्मध्ये तम आवेश्य अप्रमादवान् ब्रह्मरन्ध्रात् विनिष्क्रम्य ‘कविं पुराणम् ‘ इत्यादिविशेषणं परमपुरुषम् उपगच्छति, इत्यर्थः ।

‘भूमिजयक्रमेण ‘ इत्यत्र भूम्यादीनां पञ्चानां भूतानाम् , जयः - वशीकरणाम् - तस्य तस्य भूतस्य स्वाधीनचेष्टावैशिष्ट्यम् , तद्द्वारेण, इति एतदुच्यते । ‘स तम् ‘ इत्यादि व्याचष्टे -

स एवमिति

॥ १० ॥