श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
पुरुषः परः पार्थ भक्त्या लभ्यस्त्वनन्यया
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥
पुरुषः पुरि शयनात् पूर्णत्वाद्वा, परः पार्थ, परः निरतिशयः, यस्मात् पुरुषात् परं किञ्चित्सः भक्त्या लभ्यस्तु ज्ञानलक्षणया अनन्यया आत्मविषययायस्य पुरुषस्य अन्तःस्थानि मध्यस्थानि भूतानि कार्यभूतानि ; कार्यं हि कारणस्य अन्तर्वर्ति भवतियेन पुरुषेण सर्वं इदं जगत् ततं व्याप्तम् आकाशेनेव घटादि ॥ २२ ॥

परस्य पुरुषस्य सर्वकारणत्वं सर्वव्यापकत्वं च विशेषणद्वयम्  उदाहरति -

यस्येति ।

निरतिशयत्वं विशदयति-

यस्मादिति ।

तुशब्दः अवधारणार्थः ।

भक्तिः - भजनं सेवा प्रदक्षिणप्रणामादिलक्षणा, तां व्यावर्तयति -

ज्ञानेति ।

उक्ताया भक्तेः विषयतो वैशिष्ट्यम् आह -

अनन्ययेति ।

कोऽसौ पुरुषः ? यद्विषया भक्तिः तत्प्राप्तौ पर्याप्ता, इत्याशङ्क्य, उत्तरार्धं व्याचष्टे -

यस्येति ।

कथम् भूतानां तदन्तस्थत्वम् ? तत्र आह -

कार्यं हीति ।

‘स पर्यगात्’ (ई उ. ८)इति श्रुुतिम् आश्रित्य आह -

येनेति

॥ २२ ॥