परस्य पुरुषस्य सर्वकारणत्वं सर्वव्यापकत्वं च विशेषणद्वयम् उदाहरति -
यस्येति ।
निरतिशयत्वं विशदयति-
यस्मादिति ।
तुशब्दः अवधारणार्थः ।
भक्तिः - भजनं सेवा प्रदक्षिणप्रणामादिलक्षणा, तां व्यावर्तयति -
ज्ञानेति ।
उक्ताया भक्तेः विषयतो वैशिष्ट्यम् आह -
अनन्ययेति ।
कोऽसौ पुरुषः ? यद्विषया भक्तिः तत्प्राप्तौ पर्याप्ता, इत्याशङ्क्य, उत्तरार्धं व्याचष्टे -
यस्येति ।
कथम् भूतानां तदन्तस्थत्वम् ? तत्र आह -
कार्यं हीति ।