श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ १२ ॥
मोघाशाः वृथा आशाः आशिषः येषां ते मोघाशाः, तथा मोघकर्माणः यानि अग्निहोत्रादीनि तैः अनुष्ठीयमानानि कर्माणि तानि , तेषां भगवत्परिभवात् , स्वात्मभूतस्य अवज्ञानात् , मोघान्येव निष्फलानि कर्माणि भवन्तीति मोघकर्माणःतथा मोघज्ञानाः मोघं निष्फलं ज्ञानं येषां ते मोघज्ञानाः, ज्ञानमपि तेषां निष्फलमेव स्यात्विचेतसः विगतविवेकाश्च ते भवन्ति इत्यभिप्रायःकिञ्चते भवन्ति राक्षसीं रक्षसां प्रकृतिं स्वभावम् आसुरीम् असुराणां प्रकृतिं मोहिनीं मोहकरीं देहात्मवादिनीं श्रिताः आश्रिताः, छिन्द्धि, भिन्द्धि, पिब, खाद, परस्वमपहर, इत्येवं वदनशीलाः क्रूरकर्माणो भवन्ति इत्यर्थः, असुर्या नाम ते लोकाः’ (ई. उ. ३) इति श्रुतेः ॥ १२ ॥

भगवन्निन्दापराणां न काचिदपि प्रार्थना अर्थवती, इत्याह -

वृथेति ।

ननु भगवन्तं निन्दन्तोऽपि नित्यं नैमित्तिकं वा कर्म अनुतिष्ठन्ति, तदनुष्ठानाच्च तेषां प्रार्थनाः सार्था भविष्यन्ति, इति ; नेत्याह -

तथेति ।

परिभवः - तिरस्करणम् , अवज्ञानं - अनादरणम् । तेषामपि शास्त्रर्थज्ञानवतां तद्द्वारा प्रार्थनार्थवत्वं, इत्याशङ्क्य, आह -

तथा मोघेति ।

तथापि यौक्तिकविवेकवशात् तत्प्रार्थनासाफल्यं, इत्याशङ्क्य, आह -

विचेतस इति ।

न केवलम् उक्तविशेषणवत्वमेव तेषां, किन्तु वर्तमानदेहपातात् अनन्तरं तत्तदतिक्रूरयोनिप्राप्तिश्च निश्चिता, इत्याह -

किञ्चेति ।

मोहकरीं इति प्रकृतिद्वयेऽपि तुल्यं विशेषणम् , छिन्धि भिन्धि, पिब खाद, इति प्राणिहिंसारूपो रक्षसां स्वभावः, असुराणां स्वभावस्तु न देहि, न जुहुधि, परस्वमेव अपहर, इत्यादिरूपः, मोहः -मिथ्याज्ञानम् ।

उक्तमेव स्फुटयति -

छिन्धीति

॥ १२ ॥