भगवन्निन्दापराणां न काचिदपि प्रार्थना अर्थवती, इत्याह -
वृथेति ।
ननु भगवन्तं निन्दन्तोऽपि नित्यं नैमित्तिकं वा कर्म अनुतिष्ठन्ति, तदनुष्ठानाच्च तेषां प्रार्थनाः सार्था भविष्यन्ति, इति ; नेत्याह -
तथेति ।
परिभवः - तिरस्करणम् , अवज्ञानं - अनादरणम् । तेषामपि शास्त्रर्थज्ञानवतां तद्द्वारा प्रार्थनार्थवत्वं, इत्याशङ्क्य, आह -
तथा मोघेति ।
तथापि यौक्तिकविवेकवशात् तत्प्रार्थनासाफल्यं, इत्याशङ्क्य, आह -
विचेतस इति ।
न केवलम् उक्तविशेषणवत्वमेव तेषां, किन्तु वर्तमानदेहपातात् अनन्तरं तत्तदतिक्रूरयोनिप्राप्तिश्च निश्चिता, इत्याह -
किञ्चेति ।
मोहकरीं इति प्रकृतिद्वयेऽपि तुल्यं विशेषणम् , छिन्धि भिन्धि, पिब खाद, इति प्राणिहिंसारूपो रक्षसां स्वभावः, असुराणां स्वभावस्तु न देहि, न जुहुधि, परस्वमेव अपहर, इत्यादिरूपः, मोहः -मिथ्याज्ञानम् ।
उक्तमेव स्फुटयति -
छिन्धीति
॥ १२ ॥