श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ १२ ॥
मोघाशाः वृथा आशाः आशिषः येषां ते मोघाशाः, तथा मोघकर्माणः यानि च अग्निहोत्रादीनि तैः अनुष्ठीयमानानि कर्माणि तानि च, तेषां भगवत्परिभवात् , स्वात्मभूतस्य अवज्ञानात् , मोघान्येव निष्फलानि कर्माणि भवन्तीति मोघकर्माणः । तथा मोघज्ञानाः मोघं निष्फलं ज्ञानं येषां ते मोघज्ञानाः, ज्ञानमपि तेषां निष्फलमेव स्यात् । विचेतसः विगतविवेकाश्च ते भवन्ति इत्यभिप्रायः । किञ्च — ते भवन्ति राक्षसीं रक्षसां प्रकृतिं स्वभावम् आसुरीम् असुराणां च प्रकृतिं मोहिनीं मोहकरीं देहात्मवादिनीं श्रिताः आश्रिताः, छिन्द्धि, भिन्द्धि, पिब, खाद, परस्वमपहर, इत्येवं वदनशीलाः क्रूरकर्माणो भवन्ति इत्यर्थः, ‘असुर्या नाम ते लोकाः’ (ई. उ. ३) इति श्रुतेः ॥ १२ ॥

भगवन्निन्दापराणां न काचिदपि प्रार्थना अर्थवती, इत्याह -

वृथेति ।

ननु भगवन्तं निन्दन्तोऽपि नित्यं नैमित्तिकं वा कर्म अनुतिष्ठन्ति, तदनुष्ठानाच्च तेषां प्रार्थनाः सार्था भविष्यन्ति, इति ; नेत्याह -

तथेति ।

परिभवः - तिरस्करणम् , अवज्ञानं - अनादरणम् । तेषामपि शास्त्रर्थज्ञानवतां तद्द्वारा प्रार्थनार्थवत्वं, इत्याशङ्क्य, आह -

तथा मोघेति ।

तथापि यौक्तिकविवेकवशात् तत्प्रार्थनासाफल्यं, इत्याशङ्क्य, आह -

विचेतस इति ।

न केवलम् उक्तविशेषणवत्वमेव तेषां, किन्तु वर्तमानदेहपातात् अनन्तरं तत्तदतिक्रूरयोनिप्राप्तिश्च निश्चिता, इत्याह -

किञ्चेति ।

मोहकरीं इति प्रकृतिद्वयेऽपि तुल्यं विशेषणम् , छिन्धि भिन्धि, पिब खाद, इति प्राणिहिंसारूपो रक्षसां स्वभावः, असुराणां स्वभावस्तु न देहि, न जुहुधि, परस्वमेव अपहर, इत्यादिरूपः, मोहः -मिथ्याज्ञानम् ।

उक्तमेव स्फुटयति -

छिन्धीति

॥ १२ ॥