श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥
ज्ञानयज्ञेन ज्ञानमेव भगवद्विषयं यज्ञः तेन ज्ञानयज्ञेन, यजन्तः पूजयन्तः माम् ईश्वरं अपि अन्ये अन्याम् उपासनां परित्यज्य उपासतेतच्च ज्ञानम्एकत्वेनएकमेव परं ब्रह्मइति परमार्थदर्शनेन यजन्तः उपासतेकेचिच्च पृथक्त्वेनआदित्यचन्द्रादिभेदेन एव भगवान् विष्णुः अवस्थितःइति उपासतेकेचित्बहुधा अवस्थितः एव भगवान् सर्वतोमुखः विश्वरूपःइति तं विश्वरूपं सर्वतोमुखं बहुधा बहुप्रकारेण उपासते ॥ १५ ॥

देवतान्तरध्यानत्यागम् अपिशब्दसूचितं दर्शयति -

अन्याम् इति ।

अन्ये - ब्रह्मनिष्ठा इति यावत् ।

ज्ञानयज्ञमेव विभजते -

तच्चेति ।

उत्तमाधिकारिणाम् उपासनम् उक्त्वा, मध्यमानाम् अधिकारिणाम् उपासनप्रकारम् आह -

केचिच्चेति ।

तेषामेवाहं यज्ञः स्मार्तः किंच स्वधाहं पित्ुभ्यो यद्दीयते तत्स्वधा । तथाहमोउषधं सर्वप्र्राणिभिर्यदद्यते । प्रकारान्तरेण उपासनम् उदीरयति -

केचिदिति ।

बहुप्रकारेण अग्नयादित्यादिरूपेण, इति यावत्

॥ १५ ॥