श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥
ज्ञानयज्ञेन ज्ञानमेव भगवद्विषयं यज्ञः तेन ज्ञानयज्ञेन, यजन्तः पूजयन्तः माम् ईश्वरं च अपि अन्ये अन्याम् उपासनां परित्यज्य उपासते । तच्च ज्ञानम् — एकत्वेन ‘एकमेव परं ब्रह्म’ इति परमार्थदर्शनेन यजन्तः उपासते । केचिच्च पृथक्त्वेन ‘आदित्यचन्द्रादिभेदेन स एव भगवान् विष्णुः अवस्थितः’ इति उपासते । केचित् ‘बहुधा अवस्थितः स एव भगवान् सर्वतोमुखः विश्वरूपः’ इति तं विश्वरूपं सर्वतोमुखं बहुधा बहुप्रकारेण उपासते ॥ १५ ॥

देवतान्तरध्यानत्यागम् अपिशब्दसूचितं दर्शयति -

अन्याम् इति ।

अन्ये - ब्रह्मनिष्ठा इति यावत् ।

ज्ञानयज्ञमेव विभजते -

तच्चेति ।

उत्तमाधिकारिणाम् उपासनम् उक्त्वा, मध्यमानाम् अधिकारिणाम् उपासनप्रकारम् आह -

केचिच्चेति ।

तेषामेवाहं यज्ञः स्मार्तः किंच स्वधाहं पित्ुभ्यो यद्दीयते तत्स्वधा । तथाहमोउषधं सर्वप्र्राणिभिर्यदद्यते । प्रकारान्तरेण उपासनम् उदीरयति -

केचिदिति ।

बहुप्रकारेण अग्नयादित्यादिरूपेण, इति यावत्

॥ १५ ॥