तथेति मनूनामपि पूर्वत्वेन आद्यत्वम् अनुकृष्यते । के ते मनवः? तत्र आह-
सावर्णा इतीति ।
प्रसिद्धाः पुराणेषु, प्रजानां पालकाः, स्वयम् ईश्वराश्च इति शेषः ।
महर्षीणां मनूनां च तुल्यं विशेषणम् -
ते चेति ।
मयि - सर्वज्ञे सर्वेश्वरे, गता - भावना येषां, ते तथा । भावनाफलम् आह -
वैष्णवेनेति ।
वैष्णव्या शक्त्या अधिष्ठितत्वेन ज्ञानैश्वर्यवन्तः, इत्यर्थः ।
तेषां जन्मनो वैशिष्ट्यम् आचष्टे -
मानसा इति ।
मन्वादीनेव विशिनष्टि-
येषामिति ।
विद्यया जन्मना च सन्ततिभूता मन्वादीनाम् अस्मिन् लोके सर्वाः प्रजाः, इत्यर्थः
॥ ६ ॥