श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ ६ ॥
महर्षयः सप्त भृग्वादयः पूर्वे अतीतकालसम्बन्धिनः, चत्वारः मनवः तथा सावर्णा इति प्रसिद्धाः, ते मद्भावाः मद्गतभावनाः वैष्णवेन सामर्थ्येन उपेताः, मानसाः मनसैव उत्पादिताः मया जाताः उत्पन्नाः, येषां मनूनां महर्षीणां सृष्टिः लोके इमाः स्थावरजङ्गमलक्षणाः प्रजाः ॥ ६ ॥

तथेति मनूनामपि पूर्वत्वेन आद्यत्वम् अनुकृष्यते । के ते मनवः? तत्र आह-

सावर्णा इतीति ।

प्रसिद्धाः पुराणेषु, प्रजानां पालकाः, स्वयम् ईश्वराश्च इति शेषः ।

महर्षीणां मनूनां च तुल्यं विशेषणम् -

ते चेति ।

मयि - सर्वज्ञे सर्वेश्वरे, गता - भावना येषां, ते तथा । भावनाफलम् आह -

वैष्णवेनेति ।

वैष्णव्या शक्त्या अधिष्ठितत्वेन ज्ञानैश्वर्यवन्तः, इत्यर्थः ।

तेषां जन्मनो वैशिष्ट्यम् आचष्टे -

मानसा इति ।

मन्वादीनेव विशिनष्टि-

येषामिति ।

विद्यया जन्मना च सन्ततिभूता मन्वादीनाम् अस्मिन् लोके सर्वाः प्रजाः, इत्यर्थः

॥ ६ ॥